SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ऊर्णा मेषादिलोम्नि स्यादावर्ते चांतरा भ्रुवोः॥४९॥ हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥ त्रिषु पांडौ च हरिणः स्थूणा स्तंभे ऽपि वेश्मनः ॥५०॥ तृष्णे स्टहापिपासे वे जुगुप्साकरुणे घृणे ॥ वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी॥५१॥ करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ शरणं गृहरक्षित्रोः श्रीपर्ण कमले ऽपि च ॥५२॥ विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ॥ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमादृषु ॥५३॥ णीर्भोगिके पत्यौ प्रधाने नापिते ऽपि चेति विश्वप्रकाशः। प्रामं नयतीति ग्रामणीः ।अग्रग्रामाभ्यामिति णत्वम् । मेषलोम्नि ध्रुवोरंतरावर्ते च ऊर्णा ।" आदिना शशोष्ट्रादीनां च लोम सा ऊर्णा । सोर्णा तु चक्रवादीनां महायोगिनां च महापुरुषलक्षणभूता मृणालतंतुसूक्ष्मा शुभ्रायता प्रशस्तावर्ता प्रायेण भवति ॥४९॥ हेनः सुवर्णस्य प्रतिमा या च हरिता हरिद्वर्णा। "हरिणी हरितायां च नारीभिदृत्तभेदयोः । सुवर्णप्रतिमायां चेति मेदिनी।" पांडौ पांडुरवणे चकारान्मृगभेदे वेश्मनो गृहस्य स्तंभे स्थूणा । अपिशब्दाल्लो. हस्य प्रतिमायाम् ॥५०॥स्पृहा वांछा । पिपासा पानेच्छा । जुगुप्सा निंदा "करुणा च घृणेत्युच्यते ।" वणिक्पथे पण्यवीध्या आपणे पण्ये च विपणिः । सुरा मद्यम् । प्रत्यक् प्रतीची दिक् । उभे वारुण्यौ । “ गंडदूर्वापि वारुणी । वारुणी गंडदूर्वायां प्रतीचीसुरयोः स्रियामिति कोशांतरात् ” ॥५१॥ इभ्यां हस्तिन्यां करेणुः स्त्री. लिंगा । इभे हस्तिनि करेणुनर्ना पुल्लिंगः बलं पराक्रमः । गृहे रक्षितरि शरणम् । " वधरक्षणयोरपि शरणम् ।" चकारादग्निमंथे च श्रीपर्णम् ॥ ५२ ॥ अभिमरो युद्धम् । खरे तिग्मे । “ तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवाग्रजे पुंसि तिग्मात्मत्यागिनोस्रिष्विति मेदिनी ।" हेतुळूमादिः । मर्यादा सीमा । इयत्ता परिच्छेदः । प्रमाता ज्ञाता एष्वर्थेषु प्रमाणशब्दो वर्तते । “ प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेतौ च क्लीबैकत्वे प्रमातरीति मेदिनी"॥५३॥ साधकतमं क्रियासिद्धौ प्रकृष्टो हेतुः । साधकतमं करणमिति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy