SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नानार्थवर्गः करणं साधकतमं क्षेत्रगानेंद्रियेष्वपि । प्राण्युत्पादे संसरणमसंबाधचमूगतौ॥५४॥ घंटापथे ऽथ वांताने समुगिरणमुन्नये ॥ अतस्त्रिषु विषाणं स्यात्पशुभंगेभदंतयोः ॥५५॥ प्रवणं क्रमनिम्नोया प्रव्हे ना तु चतुष्पथे। संकीर्णौ निचिताशुद्धौ विरिणं शून्यमूषरम् ॥ ५६ ॥ “सेतौ च वरणो वेणी नदीभेदे कचोच्चये ॥” इति णांताः॥ देवस्यौँ विवस्वतौ सरस्वतौ नदार्णवौ ॥ पक्षिताक्ष्यौँ गरुत्मतौ शकुंतौ भासपक्षिणौ ॥ ५७ ।। अम्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ पाणिनिराह । यथा रामेण बाणेन हतो वालीत्यत्र हननक्रियां प्रति बाणस्य साधकतमत्वात् करणत्वमस्ति । क्षेत्रं सस्योत्पत्तिस्थानम् । करणं साधने क्षेत्रे इति विश्वः । अपिशब्दात्कर्मादि । " करणं करणे काये साधनेंद्रियकर्मसु । कायस्थे व्रतबंधे च नाट्यगीतप्रभेदयोः। पुमान् शूद्राविशोः पुत्रे वानरादौ च कीर्त्यते इत्यजयः। प्राणिनामुत्पादे जन्मनि । असंबाधचमूगतौ निर्बाधसैन्यगमने घंटापथे च संसरणम् ॥५४॥ वांतान्ने भुक्तोझिझतान्ने । उन्नये जलपात्रादेर्श्वनयने । उन्मलिते च “ उद्गिरणम्।" अतःपरं वक्ष्यमाणा णांतशब्दास्ते त्रिषु । पशुशृंगं चेभदंतश्च तयोः विषाणम् । स्त्रियां विषाणी॥५५॥क्रमेण निम्ना क्रमनिम्ना सा चासौ उर्वी च पृथ्वी तत्र । प्रव्हे नने चतुप्पथे प्रवणः पुंस्येव । निचितो व्याप्तः । अशुद्धः अमित्रः । “संकीर्णं संकटे व्याप्ते कुत्रचिद्वर्णसंकर इत्यजयः ।" शून्यं निराश्रयो देशः । ऊपरं स्थलभेदः तद्विरिणमिति स्यात् । “दीर्घादिरपि । इरणमित्यपि ईरणमिति च । ईरणं तूषरे शून्यमित्युक्तत्वात् " ॥५६॥ सेतौ च वरणो वेणी नदीभेदे कचोच्चय इत्यमूलकः ॥ इति णांताः ॥ अथ तांतानाह । नदः सरिद्विशेषः । तायो गरुडः । भासः पक्षिभेदो गोष्ठकुक्कुटाख्यः । पक्षी पक्षिमात्रम् ॥५७॥ उत्पातो धूममयी तारा । "ग्रहभेदे ऽपि धूमकेतुः । जीवनं जलं मुंचतीति जीमूतो मेघः । पृषोदरादिः । जीमूतो ऽद्रौ धृतिकरे देवताड़े पयोधरे इति मेदिनी । धूमकेतुः स्मृतो वन्हावुत्पातग्रहभेदयोरिति विश्वः।" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy