SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २९६ सटीकामरकोशस्य [ नानार्थवर्ग: रिष्टं क्षमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥ ३५ ॥ मायानिश्चलयंत्रेषु कैतवानृतराशिष्ठ | अयोघने शैलश्टंगे सीरांगे कूटमस्त्रियाम् ।। ३६ ।। सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा || आर्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ॥ ३७ ॥ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञाने ऽक्षिण दर्शने ॥ इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ॥ ३८ ॥ कष्टे तु कुछ गहने दक्षामंदागदेषु च ॥ पटु वाच्यलिंगी च ॥ इति टांताः। नीलकंठः शिवेऽपि च ३९ पुंसि कोष्ठों ऽतर्जठरं कुलों गृहं तथा ॥ 19 " अरिष्टमशुभे त सूतिकागार आसवे । शुभे मरणचिन्हे चेति मेदिनी । ॥ ३५ ॥ मायादिषु नवसु कूटम् । तदस्त्रियाम् । अन्यथाकारदर्शनं माया । निश्चलमविकारमाकाशादि । यंत्रं मृगबंधनविशेषः । कैतवं कपटम् । अनृतं असत्यम् । राशिः पुंजः । अयोधनो लोहहननार्थ आयुधविशेषः । सीरामं हलाप्रम् ॥ ३६ || सूक्ष्मैला प्रसिद्धा । काले -हस्वाक्षर चतुर्थभागग्रहणात्मके कालभेदे । अल्पे लेशे । संशये संदेहे । आर्तिश्चापाग्रम् | उत्कर्षः प्रकर्षः । अश्रिः कोणः । संख्याभेदे ऽपि कोटिः । स्यात्कोटिरश्मौ चापाने संख्याभेदप्रकर्षयोरिति विश्वः । मूले संश्लिष्टकेशे जटामांस्यां वेदविकृतौ च ॥ २७ ॥ फले साध्ये समृद्धौ संपदि व्युष्टिः | अक्ष्णि चक्षुषि । यागो यज्ञः । इच्छा स्पृहा । " इष्टिर्मताभिलाषेऽपि संग्रहश्लोकयागयोरिति मेदिनी । " बहुनि प्रचुरे । मुक्तनिर्मितयोश्च सृष्टम् । सृष्टिनिश्चिते बहुले त्रिष्विति कचित्पुस्तके पाठः || ३८ || कृछ्रं दुःखम् | गहनं दुर'धिगमांतः प्रांतम् । उभे कष्टे । दक्षो ऽनलसः । अमंदस्तीक्ष्णः । अगदो रोगहीनः । एते पटवः ॥ द्वौ कष्टपटू वाच्यलिंगौ ॥ इति टांताः ॥ अथ ठांतानाह । अपिशब्दान्मयूरे ऽपि नीलकंठः ॥ ३९ ॥ अंतर्जठरं जठरस्यांतरम् | कुसूलो धान्यागारम् । अंतगृहं गृहाभ्यंतरं च एतेषु कोष्ठः पुंसि । निष्पत्तिर्निष्पादनम् । नाशः अदर्शनम् | अंतः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy