SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् समे आमांशे रणे ऽप्याजिः प्रजा स्यात्संततौ जने ॥ अब्जौ शंखशशांकौ च खके नित्ये निजं त्रिषु ॥ ३२॥ ॥इति जांताः॥ पुंस्थात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिंगकः।। संज्ञा साञ्चेतना नाम हस्तायैश्वार्थसूचना ॥ ३३ ॥ ॥इति आताः॥ काकेभगंडौ करटौ गजगंडकटी कटौ॥ शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥ देवशिल्पिन्यपि त्वष्टा दिष्टं देवे ऽपि न द्वयोः ॥ रसे कटुः कटकार्ये त्रिषु मत्सरतीक्ष्णयोः॥ समे क्ष्मांशे भूमागे तत्र आजिरिति । रणे संग्रामे । संततिरपत्यम् । चकाराद्धन्वंतरावब्जः । पञऽपि अब्जम् । स्वके आत्मीये नित्ये चिरस्थिते । यथा धर्मो निजः मित्य इत्यर्थः । इति जांताः ॥३२॥ अथ बांतानाह । आत्मनि पुरुषे क्षेत्रज्ञः पुंसि । प्रवीणे तु वाच्यलिंगकः । चेतना धीः नानाभिधानम् । हस्ताद्यैर्हस्तभ्रलोचनादिभिर्या अर्थसूचना प्रयोजनविज्ञापनं सापि संज्ञा । “गायत्री सूर्यस्त्री च संज्ञा । तदुक्तं मेदिन्याम् । संज्ञा नामनि गायत्र्यां चेवनारवियोषितोः । अर्थस्य सूचनायां च हस्ताचैरपि योषितीति" ॥३२॥ अत्र क्षेपकोऽयम् । दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान्सोमजो ऽपि च । विज्ञौ प्रवीणकुशलौ कालज्ञौ ज्ञानिकुक्कुटाविति॥१॥ इति अांताः।। अथ टांतानाह । काकश्चेभगंडो हस्तिकपोलश्च काकेभगंडौ "करटौ स्याताम् करटो गज. गंडे स्यात्कुसुंभे निंद्यजीवने । एकादशाहादिश्राद्धे दुर्दुरूटे ऽपि वायसे । करटो वाद्यभेदे इति मेदिनी" | गजगंडः कटिश्च कटौ स्याताम् । कटिः श्रोणिः । “ कटः श्रोणौ क्रियाकारे कलिंजे ऽतिशये शवे । समये गजगंडे ऽपि पिप्पल्यां तु कटी मतेति विश्वः ।” रुजा निष्केशशिराः खलतिः तस्मिन्दुश्चर्मणि निष्कुषितत्वचि महेश्वरे शिपिविष्टः । “ शिपविष्टः शिविपिष्ट इति राजमुकुटः" ॥ ३४ ॥ देवशिल्पिनि विश्वकर्मण्यपिशब्दादविभेदे काष्ठतक्षे त्वष्टा । दैवे प्राक्तनकर्मणि दिष्टम् । नपुंसकम् । अपिशब्दात्काले तु ना । रसे पिप्पल्यादिरसभेदे कटुः पुंसि । अकार्ये करणान: । कटु क्लीबम् । मत्सरतीक्ष्णयोस्त्रिषु । क्षेमे कल्याणे । अशुभे ऽमंगले। अभावे अशुभस्यैवाभावे रिष्टमिति । शुभाशुभे अरिष्टे । सूतिकागृहं चारिष्टम् । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy