SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४ . सटीकामरकोशस्य . [ कालवर्ग: गणरात्रं निशा बह्वयः प्रदोषो रजनीमुखम् ।। अर्धरात्रनिशीथौ द्वौ दौ यामप्रहरौ समौ ॥६॥ स पर्वसंधिः प्रतिपत्पंचदश्योर्यदंतरम् ॥ पक्षांती पंचदश्यौ दे पौर्णमासी तु पूर्णिमा ॥७॥ कलाहीने सानुमतिः पूर्णे राका निशाकरे॥ अमावास्याँ वमावस्याँ दर्शः सूर्यैदुसंगमः॥८॥ सा दृष्टेदुः सिनीवाली सा नष्टेदुकला कुहः॥ उपरागो ग्रहो राहुग्रस्ते विंदौ च पूष्णि च ॥९॥ पक्षिणीति नामैकं । पक्षाविव पक्षौ पूर्वोत्तरदिवसौ यस्याः सा पक्षिणी। पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशति स्मरणात् ॥५॥ बढ्यो निशाः गणरात्रं स्यात् एकं रात्रिसमुदायस्य । प्रदोषः रजनीमुखं वे रात्रेः पूर्वभागस्य । अर्धरात्रः निशीथ इति द्वे रात्रिमध्यसमयस्य । यामः प्रहरः द्वे अहोरात्राष्टमांशस्य ॥ ६॥ प्रतिपत्पंचदश्योर्यदंतरं स संधिः पर्वेत्यन्वयः । यदाह रुद्रः । दर्शप्रतिपदोः संधौ ग्रंथिप्रस्तावयोरपि ॥ पर्व क्लीबे विजानीयाद्विषुवत्प्रभृतिष्वपीति । पर्वसंधिरिति चतुरक्षरं वा एकम् । द्वे अमापूर्णिमे पक्षांतौ पंचदश्यौ द्वयं पक्षांततिथ्योः। द्वित्वाद्विवचनं । नतु नित्यं । पौर्णमासी पूर्णिमा । वे शुक्लपक्षांत्यतिथौ ॥ ७॥ सा पूर्णिमा कलाहीने चंद्रे सति अनुमतिरित्युच्यते एकम्।सैव पूर्णिमा पूर्णे निशाकरे सति राका एकम् ॥ या पूर्वा पौर्णमासी सा अनुमतिर्योत्तरा सा राकेति श्रुतिः। अमावास्या अमावस्या ।अमावस्यदन्यतरस्याम्. पा. अमा सह वसतः अस्यां चंद्रार्की अमोपपदाहसेरधिकरणे ण्यत् वृद्धौ सत्यां पाक्षिको -हस्वश्च निपात्यते । “अमावसी अमावासी अमामासी अमामसी । अप्यमावस्यमावासी चामामास्यप्यमामसीति शब्दार्णवः । नामैकदेशे नामग्रहणादमापि" दर्शः सूर्येदुसंगमः चत्वारि कृष्णपक्षांत्यतिथेः॥८॥सा अमावास्या दृष्टेदुश्चेत् दृष्ट इंदुर्यस्यां सा सिनीवाली एकम् । सैव नप्टेंदुकला । नष्टा इंदुकला यस्यां सा कुहूः । “कुहुः" एकम् । या पूर्वामावास्या सिनीवाली योत्तरा सा कुहूरिति श्रुतिः । अयमर्थः । चतुर्दश्या अंतिमप्रहरः अमावास्याया अष्टौ प्रहराश्चेति नवप्रहरात्मकश्चंद्रक्षयकालः शास्त्रसिद्धः । तत्राद्यप्रहरद्वये चंद्रस्य सूक्ष्मता । अंतिमप्रहरद्वये कृत्लक्षयः । अतो ऽमावास्याया आद्यप्रहरः सिनीवालीसंज्ञः। अंत्यप्रहरद्वयं कुहू For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy