SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कालवर्गः ४] प्रथमं कांडम्. घस्रो दिनाहनी वा तु क्लीवे दिवसवासरौ ॥ प्रत्यूषो ऽहर्मुखं केल्यमुषःप्रत्युषसी अपि ॥२॥ “व्युष्टं विभातं द्वे क्लीवे पुंसि गोसर्ग इष्यते” ॥ प्रभातं च दिनांते तु सायं संध्या पितृप्रमः॥ प्राणापराह्नमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३॥ निशा निशीथिनी राँत्रिस्त्रियामा क्षणदा क्षपा ॥ विभावरीतमखिन्यौ रजनी यामिनी तमी ॥४॥ तमित्रा तामसी रात्रिज्योत्स्नी चंदिकयान्विता ॥ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥५॥ दाद्यास्तिथय इत्युच्यते एकम् । तिथिशब्दः द्वयोः स्त्रीपुंसयोः । तथा च प्रयोगः । सफलो निशि पूर्णिमातिथीनुपतस्थेऽतिथिरेकिका तिधिरिति ॥ १॥ घस्रः दिनं अहः दिवसः वासरः पंचकं दिवसस्य । तत्र दिवसवासरौ क्लीवपुंसोः । प्रत्यूषः अहर्मुखं कल्यं ( काल्यं ) उषः ( ऊषः उषा ) "उषा प्रभातं गोसर्ग इति त्रिकांडशेषः”। प्रत्युषः (प्रत्यूषः) “उषः प्रत्युषसि क्लीबं पितृप्रस्वां च योषिति ।” प्रभातं षष्टुं प्रभातस्य । तत्राद्यः प्रत्यूषोऽदंतः पुंसि क्लीबे च। “प्रत्यूषोऽहर्मुखे वसाविति मेदिनी।"कल्यं तालव्यांतम् ॥ २॥ दिनांतः सायंः “सायः" संध्या "संधा संध्या पितृप्रसूः संधेति शब्दार्णवः" सम्यक् ध्यायंत्यस्यामिति संध्या। पितृप्रसः चत्वारि दिनांते । तत्र सायमित्यव्ययं नपुंसकलिंगं वा । “सायः कांडे दिनांते चेति मेदिन्यादिषु साय इत्युक्तत्वात्सायमिति मांताव्ययस्याव्ययवर्गे वक्ष्यमाणत्वादत्र सायोऽदंतः पुंस्येव"। प्रातादयः समाहृताः त्रिसंध्यं ज्ञेयम् । “आबंतो वेति पाक्षिकी क्लीबता । पक्षे त्रिसंध्यी" एकम् । तत्र प्राहः पूर्वाह्नः । शर्वरी (शार्वरी) ॥३॥ निशा निशीथिनी रात्रिः (रात्री) “रात्री रात्रिस्तमस्विनीति शब्दार्णवः” त्रियामा क्षणदा क्षणमुत्सवं निर्व्यापारस्छितिं वा ददाति । क्षपा विभावरी तमस्विनी रजनी (रजनिरपि) यामिनी तमी "तमा तमिः" द्वादश निशायाः॥४॥ या तामसी तमोयुक्ता रात्रिः सा तमिस्रा एकम् । या चंद्रिकया चंद्रप्रकाशेन अन्विता युक्ता रात्रिः सा ज्योत्स्नी एकम् । ज्योत्स्नी ज्योतिष्मती रात्रिज्योत्स्ना चंद्रमसः प्रभेति शाश्वतः । पूर्वापरदिनाभ्यां युक्तायां रात्रौ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy