SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २९२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्ग: पशवो ऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥ परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ गजे sपि नागमातंगाव पांगस्तिलकेऽपिच ॥ २१ ॥ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु || योगः सन्नहनोपायध्यानसंगतियुक्तिषु ।। २२ ।। भोगः सुखे रूयादिभृतावहेच फणकाययोः ॥ चातके हरिणे पुंसि सारंगः शबले त्रिषु ।। २३ ॥ पौ च लवगः शापे त्वभिषंगः पराभवे ॥ अपिशब्दात् मृगशीर्षे मार्गणायां च मृगः । जवो रंहः । अपिशब्दाद्विष्टादेर्बहिर्नि र्गमेऽपि वेगशब्दः स्यात् ॥ २० ॥ कुसुमसंबंधिनि रेणौ परागः । स्नात्यनेन स्नानीयं गंधचूर्णविशेषः । आदिना सुरतादिश्रमशांतये कामशास्त्राद्युक्तं यत्कर्पूरादिचूर्णं तग्रहः । अपिशब्दादुपरागे ऽपि । परागः रजसि धूलौ । नागमातंगौ गजे वर्तेते । अपिशब्दात्काद्रवेयनागकेशर नागवल्ली हास्तिनपुर मेघमुस्तकादौ । नागः पुंसि । क्लीबं सीसलवंगयोः । अपिशब्दाचंडाले ऽपि मातंगः | "अपिशब्दात् ” नेत्रस्यांतें गहने चापांग: । अपांगस्त्वंगहीने स्यान्नेत्रांते तिलकेऽपि चेति विश्वः ॥ २१ ॥ स्वभावः प्रकृतिः । निर्मोक्षस्त्यागः । निश्चये यथा । गृहाण शस्त्रं यदि सर्ग एष ते इति रघुः । अध्यायः काव्यादिविरामस्थानं सृष्टिर्निर्माणं एतेषु सर्गः । " सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिष्विति मेदिनी । " सन्नहनं कवचः । उपायः सामादिः । ध्यानं चित्तवृत्तिनिरोधः । संगतिः संगम इत्यादिषु योगशब्दः । “योगो ऽपूर्वार्थसंप्राप्तौ संगतिध्यानयुक्तिषु । वपुः स्थैर्ये प्रयोगे च विष्कंभादिषु भेषजे । विश्रब्धघात के द्रव्योपायसन्नहनेष्वपि । कार्मणे ऽपि चेति मेदिनी ॥ २२ ॥ रूयादि - भृतौ पण्यस्त्रीणां । आदिशब्दाद्धस्त्यश्वादिकर्मकराणां भृतौ मूल्ये पालने भरणे वा भोगः । पालने ऽभ्यवहारे च निर्वेशे पण्ययोषितीति विश्वः । अहेः सर्पस्य । शबले कर्बुरे त्रिलिंग्याम् । " सारंगः पुंसि हरिणे चातके च मतंगजे । शबले त्रिष्विति मेदिनी " ॥ २३ ॥ कपौ वानरें चकाराद्भके सारथ्यादौ च वगः । शापे आक्रोशे पराभवे तिरस्कारेऽभिषंगः । यानाद्यंगे रथशकटादीनामवयवे "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy