SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. पाकौ पक्तिशिशू मध्यरत्रे नेतरि नायकः ॥ पर्यकः स्यात्परिकरे स्याद्वयाघ्रे ऽपि च लुब्धकः ॥ २ ॥ आर्द्रायामपि लुब्धक इत्यपि पाठः ॥ पेट स्त्रि वृंदे ऽपि गुरौ देश्ये च देशिकः ॥ खेटकौ ग्रामफलकौ धीवरे ऽपि च जालिकः ॥ ३ ॥ पुष्परेणौ च किंजल्कः शुल्को ऽस्त्री स्त्रीधने ऽपि च ॥ स्यात्कल्लोले ऽप्युत्कलिका वार्द्धकं भाववृंदयोः ॥ ४ ॥ करिण्यां चापि गणिका दारकौ बालभेदकौ ॥ अंधे ऽप्यनेडमूकः स्यात् टंकौ दर्पाश्मदारणौ ॥ ५ ॥” ॥ इति पंच क्षेपकाः ॥ इति कांतवर्गः ॥ मयूखस्त्विकरज्वालाखलिवाणौ शिलीमुखौ || शंखो निधौ ललाटास्थिन कंबौ न स्त्रींद्रियेऽपि खम् ॥ १८ ॥ घृणिज्वाले अपि शिखे ॥ इति खांताः । शैलवृक्षौ नगावगौ ॥ आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ पतंगौ पक्षिसूर्यौ च पूगः क्रमुकवृंदयोः ॥ For Private And Personal २९१ अथ खतानाह । त्विट्करज्वालासु मयूखः । अत्र विट् शोभा । करः किरणः । भ्रमरशरौ शिलीमुखौ । शिली शल्यं मुखे ययोस्तौ । निधौ निधिभेदे ललाटास्थिन कंबौ च शंखः । अपिशब्दादाकाशे ऽपि शून्ये खम् । खमिंद्रिये पुरे क्षेत्रे शून्यबिंदौ विहायसि | संवेदने देवलोके शर्मण्यपि नपुंसकमिति मेदिनी ॥ १८ ॥ घृणिः किरणः अपिशब्दाच्चूडायां प्रपदे बर्हिचूडायां च शिखा । इति खांतवर्ग:। अथ गांतानाह । शैलवृक्षौ नगसंज्ञकावगसंज्ञकौ च । विशिखो बाणः । बाणार्कपक्षिणः खगशब्दवाच्याः | अर्केति ग्रहणमुपलक्षणम् ॥ १९ ॥ चकाराच्छालिप्रभेदे पतंगः क्रमुको वृक्षभेदः । तत्फले तु क्लीवं पगम् । वृंदं समूहः । पशवो हरिणाद्याः ।
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy