SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २९. सटीकामरकोशस्य नानार्थवर्गः दीनारे ऽपि च निष्को ऽस्त्री कल्को ऽस्त्री शमलैनसोः॥ दंभे ऽप्यथ पिनाको ऽस्त्री शूलशंकरधन्वनोः ॥ १४ ॥ धेनुका तु करेण्वां च मेघजाले च कालिका॥ कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५॥ करिहस्तेऽगुलौ पद्मबीजकोश्यां त्रिपूत्तरे ॥ वृंदारको रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ स्याहांभिकः कौकुटिको यश्रादूरेरितेक्षणः ॥ लालाटिकः प्रभो लदर्शी कार्याक्षमश्च यः ॥ १७ ॥ "भूभृनितंबवलयचक्रेषु कटको ऽस्त्रियाम् ॥ सूच्यग्रे क्षुद्रशक्तौ च रोमहर्षे च कंटकः ॥ १ ॥ किट्टेभदंतयोरिति विश्वः । कल्को ऽस्त्री घृततैलादिशेषे दंभे बिभीतके इति मेदिनी। पिनाको ऽस्त्री रुद्रचापे पांसुवर्षत्रिशूलयोरिति मेदिनी ॥ १४॥ करेण्वां हस्तिन्यां चकारान्नवप्रसूतायां गवि धेनुका । मेघजाले मेघवृंदे चकाराद्देवताविशेषे ऽपि कालिका । वृत्तिविवरणश्लोकः । यथा गृह्यकारिका । “ यातनाकृत्योरित्यपि पाठः । कारिका नटयोषिति । कृतौ विवरणश्लोके शिल्पयातनयोरपि । नपुंसक तु कर्मादौ कारके कर्तरि त्रिध्विति मेदिनी" ॥ १५॥ करिहस्तेऽगुलौ गजशुंडाने अंगुली कमलांतर्गतकोशे च कर्णिका । “कर्णिका करिहस्ताग्रे करमध्यांगुलावपि । क्रमुकादिच्छटांशे ऽब्जवराटे कर्णभूषण इति मेदिनी" । उत्तरे अतः परं खातेभ्यः प्राक् शब्दास्त्रिषु त्रिलिंगा इत्यर्थः । “ वृंदारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिष्विति मेदिनी।" मुख्यश्चान्यश्च केवलश्चेति एके स्युः ॥१६॥ दांभिको मायावी । योऽदूरेरितेक्षणः स च कौकुटिक इत्युच्यते । संज्ञायां ललाटकुकुटयौ पश्यति इति सूत्रेण ठप्रत्यये कौकुटिकलालाटिकशब्दौ साधू । कुकुटीशब्देन तत्पाताहः स्वल्पदेशो लक्ष्यते। यो भृत्यः कोपप्रसादचिह्नज्ञानाय प्रभोर्भालं ललाटमेव पश्यति । भावदर्शीत्यपि पाठः । यश्च कार्याक्षमः प्रभोः कार्य कर्तुमशक्तः तावुभौ लालाटिको । लालाटिकः सदालस्ये प्रभुभावनिदर्शिनीत्यजयः । इतो भूभृन्नितंबेत्यादयः केचिदमूलका एव पंच श्लोकाः अतस्तेषां व्याख्यानाभावः ॥ १७॥ इति कांताः ॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy