SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य किरणोस्त्रमयूखांशु गभस्तिघृणिरश्मयः ॥ भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३॥ स्युः प्रभारुयुचिस्त्विड्डाभाश्छविद्युतिदीप्तयः रोचिः शोचिरुभे कीबे प्रकाशो द्योत आतपः ॥ ३४ ॥ कोष्णं कवोष्णं मंदोष्णं कदुष्णं त्रिषु तद्वति ॥ तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५॥ ॥ ॥ इति दिग्वर्गः ॥ ५ ॥ [दिग्वर्ग: ३ कालो दिष्ट statesपि समयो ऽप्यथ पक्षतिः ॥ प्रतिप इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥ For Private And Personal षस्य । परिवेषसाहचर्यात्परिधिः पुंसि ज्ञेयः । मंडलं परिवेषश्च परिधिश्चापसूर्यकमिति भागुरिः॥ ३२ ॥ किरणः उस्रः मयूखः अंशुः गभस्तिः घृणिः जिघर्ति इति घृणिः । घृ क्षरणदीप्त्योः घृ सेचने वा । रश्मिः (धृष्णिः वृष्णिः पृश्निः ) भानुः करः मरीचिः दीधितिः एकादश किरणस्य । मरीचिः स्त्रीपुंसयोः । द्वयोर्मरीचिः किरणो भानुरुस्रः करः पदमिति शब्दार्णवः । मरीचिर्मुनिभेदे ना गभस्तावनपुंसकमिति मेदिनी च । दीधितिः स्त्रियाम् स्त्रियामित्यस्य काकाक्षिगोलकन्यायेनोत्तरश्लोकेप्यन्वयः ॥ ३३ ॥ प्रभा रुक् रुचिः त्विट् भा भाः छविः द्युतिः दीप्तिः रोचिः शोचिः इत्येकादश प्रभामात्रस्य । तत्र दीप्त्यंतानि स्त्रियां स्युः । रोचिः शोचि: सांते क्ली । द्विवचनं तु रोचिषी शोचिषी । भाः सांतः । प्रकाशः द्योतः आतपः इति त्रयं सूर्यप्रभायाः । प्रभामात्रस्येत्येके ॥३४॥ कोष्णं कत्रोष्णं मंदोष्णं कदुष्णं चतुष्टयमीषदुष्णे । इदं धर्ममात्रे रूपभेदात्क्ली । तद्वति धर्मिणि त्रिषु वाच्यलिंगमित्यर्थः । तिग्मं तीक्ष्णं खरं त्रयमत्युष्णस्य । तद्वत्कोष्णवत् । धर्मे क्लीबं । धर्मिणि त्रिषु । मृगतृष्णा मरीचिका द्वयं 1 मृगजलक्ष्य । मरुदेशादौ सिकतासु प्रतिच्छुरिताः सूर्यकिरणाः जलाकारेण भांति तस्य जलाभासस्येत्यर्थः ॥ ३५ ॥ इति दिग्वर्गः ॥ ६ ॥ कालः । कालो मृत्यौ महाकाले समये यमकृष्णयोरिति कोशांतरे अन्यार्थेऽपि कालशब्दः । दिष्टः अनेहा समय: चत्वारि कालस्य । अनेहाः सांतः ऋदुशनेत्यनङ् | पक्षतिः पक्षस्य मूलं । पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तिथाविति । प्रतिपत् इमे द्वे प्रथमतिथेः । तदाद्याः प्रतिप
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy