SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २८१ परिणामो विकारो द्वे समे विकृतिविक्रिये ॥१५॥ अपहारस्त्वपचयः समाहारः समुच्चयः॥ प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥ अभिहारो ऽभिग्रहणं निर्हारो ऽभ्यवकर्षणम् ॥ अनुहारो ऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७॥ प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः ॥ वियामो वियमो यामो यमः संयामसंयमौ ॥ १८॥ हिंसाकर्माभिचारः साज्जागर्या जागरा द्वयोः॥ विघ्नों ऽतरायः प्रत्यूहः स्यादुपनों ऽतिकाश्रये ॥ १९॥ निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया ॥ परिणामः विकारः द्वे प्रकृतेरन्यथाभावे । यथा मृद्विकारो घटः । विकृतिः विक्रिया द्वे विरुद्धक्रियायाः । परिणामस्यैव पर्यायाविमावपि वा । यथा कुंडलं कनकस्यैव विकृतिः परिणाम इत्यर्थः ॥ १५ ॥ अपहारः अपचयः द्वे अपहरणस्य । समाहारः समुच्चयः द्वे राशीकरणस्य । सम्यगाहरण मेकत्र करणं समाहारः । सम् आङपूर्वकस्य हृञ् हरण इत्येतस्य रूपम् । प्रत्याहारः उपादानं द्वे इंद्रियाकर्षणस्य । विहारः परिक्रमः द्वे पद्भयां गतेः । यल्लक्ष्यम् । सुरांगनानामवनी परिक्रम इति ॥ १६ ॥ अभिहारः “ अभ्याहार इत्यपि" अभिग्रहणं द्वे चौर्यकरणस्य । निर्हारः अभ्यवकर्षणं द्वे शल्यादेनिष्काशनस्य । अनुहारः अनुकारः हे विडंबनस्य । यथा खणखणेति नपुरध्वनेरनुकारः । अर्थस्य धनादेरपगमे व्यय इत्येकम् । खर्च इति लौकिकभाषायाम् ॥ १७॥ प्रवाहः प्रवृत्तिः द्वे जलादीनां निरंतरगतेः । यद्वहिर्गमनं स प्रवह इत्येकम् । वियामः वियमः यामः यमः संयामः संयमः षट् संयमस्य योगांगस्य ॥ १८ ॥ हिंसाकर्म हिमाफलकं कर्म जारणमारणादि अभिचारः स्यात् एकम् । जागर्या “ अग्रिया जागर्तिश्चेति राजमुकुटः" जागरा द्वे जागरणस्य । तत्र जागरा स्त्रीपुंसयोः । विघ्नः अंतरायः प्रत्यूहः त्रीणि विनस्य । समीपभूत आश्रये उपन्न इत्येकम् । उपन्न आश्रयेतिसूत्रेण सिद्धमेतत् । “आश्रयणस्य वा" ॥ १९ ॥ निर्वेशः उपभोगः द्वे “ उपभोगस्य ।” परिसर्पः परिक्रिया द्वे परिजनादिवेष्टनस्य । विधुरं प्रविश्लेषः द्वे अत्यंतवियोगस्य | "वैकल्ये For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy