SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [संकीर्ण वर्गः विधुरं तु प्रविश्लेषे ऽभिप्रायश्छंद आशयः ॥ २० ॥ संक्षेपणं समसनं पर्यवस्था विरोधनम् || परिसर्या पॅरीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥ विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ।। २२ ।। संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥ नीवाकस्तु प्रयामः स्यात्सन्निधिंः सन्निकर्षणम् ॥ २३ ॥ aai strorai लवने निष्पावः पवने पवः || प्रस्तावः स्यादव सरस्त्रसरः सूत्रवेष्टनम् || २४ ॥ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ॥ " " ऽपि च विश्लेषे विधुरं विकले त्रिध्विति मेदिनी । " अभिप्राय: छंदः आशयः त्रीणि “ अभिप्रायस्य । " छंदो ऽदंतः || २० || संक्षेपणं समसनं द्वे अविस्तारस्य । पर्यवस्था विरोधनं द्वे विरोधस्य | परिसर्या परीसारः परिसार इति शब्दार्थकोशः " द्वे परितः सरणस्य । आस्या आसना स्थिति: त्रीणि 66 आसनस्य ” ॥ २१ ॥ विस्तारः विग्रहः व्यासः त्रयं विस्तृतेः । विस्तारः शब्दसंबंधी द्विस्तर इत्येकम् | संवाहनं मर्दनं द्वे अंगमर्दनस्य । यथा पादसंवाहनम् । विनाशः अदर्शनं द्वे तिरोधानस्य || २२ || संस्तवः परिचयः द्वयं परिचितौ । प्रसरः विसर्पणं द्वे " व्रणादिप्रसरणस्य । " नीवाक: प्रयामः द्वे धनधान्यादिषु जनानामादरातिशयस्य । नितरामुच्यते नीवाकः सन्निधिः “ सन्निधं ” सन्निकर्षणं द्वे नैकट्यस्य । सन्निधिः पुंसि ॥ २३ ॥ लवः अभिलावः लवनं त्रयं I धान्यादिच्छेदनस्य । निष्पावः पवनं पवः त्रीणि धान्यादीनां पूतीकरणस्य । संकीर्णत्वाल्लिंग संकरः । प्रस्ताव: अवसर: द्वे प्रसंगस्य । यथा । अवसरपठिता वाणीत्यादि । श्रसरः 66 तसर इति वा पाठ: " सूत्रवेष्टनं द्वे तंतुवायकृतसूत्रवेष्टनभेदस्य तसरी इति प्रसिद्धस्य ॥ २४ ॥ प्रजनः उपसरः द्वे गर्भग्रहणस्य । प्रश्रयः प्रणयः द्वे प्रेम्णः । प्रसर इति वा पाठ: । प्रसरः प्रणये वेगे इति मेदिनी । धीशक्तिः निष्क्रमः द्वे बुद्धिसामर्थ्ये । निष्क्रमो बुद्धिसंपत्ताविति विश्वः । " शुश्रूषा श्रवणं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy