SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८. सटीकामरकोशस्य [संकीर्णवर्गः उत्कर्षो ऽतिशये संधिः श्लेषे विषय आश्रये ॥ क्षिपाया क्षेपणं गीर्णिगिरौ गुरणमुद्यमे ॥११॥ उन्नाय उन्नये श्रायः श्रयणे जयने जयः॥ निगादो निगदे मादो मद उद्वेग उद्भमे ॥१२॥ विमर्दनं परिमलो ऽभ्युपपत्तिरनुग्रहः॥ निग्रहस्तविरुद्धः स्यादभियोगस्त्वभिग्रहः ॥१३॥ मुष्टिबंधस्तु संग्राहो डिबे डमरविप्लवौ ॥ बंधनं प्रसितिश्चारः स्पर्शः स्पष्टोपतप्तरि ॥ १४ ॥ निकारो विप्रकारः स्यादाकारस्त्विग इंगितम् ॥ संधिः श्लेषः द्वे संधानस्य । विषयः आश्रयः “आशय इत्यपि" द्वे “ आश्र यस्य ।" क्षिपा क्षेपणं द्वे "प्रेरणस्य ।” गीणिः गिरिः द्वे निगरणस्य "गिळणे इति ख्यातस्य ।" गुरणं " गूरणमिति मुकुटः” उद्यमः द्वे " भाराघुद्यमनस्य" ॥ ११ ॥ उन्नायः उन्नयः द्वे ऊर्ध्वं नयनस्य ऊहस्य च । श्रायः श्रयणं द्वे सेवायाः । जयनं जयः द्वे " जयस्य ।" निगादः निगदः द्वे कथनस्य । मादः मदः द्वे हर्षस्य । उद्वेगः उद्भमः द्वे उद्वेजनस्य ॥ १२ ॥ विमर्दनं परिमलः द्वे कुंकुमादिमर्दनस्य । परिमलो विमर्देऽपीति विश्वः। अभ्युपपत्तिः अनुग्रहः द्वे अंगीकारस्य । ततोऽनुग्रहाद्विरुद्धो निग्रहः स्यात् । विग्रहस्तु विरोधः स्यादिति । अथवा निग्रहस्तु निरोधः स्यादिति वा क्वचित्पाठः।" एकम् । अभियोगः अभिग्रहः द्वे कलहाव्हानस्य ॥ १३ ॥ मुष्टिबंधः संग्राहः द्वे मुष्टिना दृढग्रहणस्य । डिंबः डमरः विप्लवः त्रयं नरगुंठनादेरुपसर्गविशेषस्य । प्रलयस्य वा । अशस्त्रफलहस्येति रामस्वामी । बंधनं प्रसितिः चारः त्रीणि बंधनस्य । “ चारस्थाने स्वारं पठित्वा स्वारादीनां चतुर्णां पर्यायतामाह स्वामी । स्वृ शब्दोपतापयोः अच् प्रज्ञाद्यण् । स्वारः।" स्पर्शः “ स्पश इति रेफहीनो ऽपि" स्प्रष्टा “ स्पष्टे. त्यपि" उपतप्ता त्रयं उपतापाख्यरोगविशेषस्य । “ संतप्तस्य वा" । स्पृशतीति स्पर्शः । स्पर्शी रुजायां दाने चेति विश्वः ॥ १४ ॥ निकारः विप्रकारः द्वे अपफारस्य । आकारः इंगः इंगित " इंगितः" अयं “ अभिप्रायानुरूपचेष्टितस्य ।" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy