SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७८ सटीकामरकोशस्य [संकीर्णवर्गः यहच्छा स्वैरिता हेतुशून्या वास्या विलक्षणम् ॥ २॥ शमथस्तु शमः शांतिदौतिस्तु दमथो दमः॥ अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३॥ वशक्रिया संवननं मूलकर्म तु कार्मणम् ॥ विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥ पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ॥ सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५॥ आक्रोशनमभीषंगः संवेदो वेदना न ना ।। कार्यपारगतावपीति मेदिनी । आसंग: आसक्तिस्तद्वचनं क्रमेणैकैकम् । यदृच्छा स्वैरिता द्वे स्वच्छंदतायाः । हेतुशून्या कारणरहिता आस्या स्थितिविलक्षणं स्यात् विगतं लक्षणमालोचनं यत्र । तदुक्तं भागुरिणा । विलक्षणं मतं स्थानं यद्भवेनिष्प्र. योजनमिति । एकम् ॥ २॥ शमथः शमः शांतिः त्रयं चित्तोपशमस्य । दांतिः दमथः दमः त्रयमिंद्रियनिग्रहस्य । वृत्तं कर्म भूतपूर्वं चरित्रं तदवदानं एकम् । " प्रशस्त कर्मणो वा।" अपदामित्यपि पाठः । काम्यदानं काम्यस्य तुलापु. रुषादेर्दानं तत्प्रवारणं एकम् । “प्रहारणमिति भरतमालायाम् । प्रवारणं महादानमिति त्रिकांडशेषः " ॥ ३ ॥ वशक्रिया संवननं " संवदनं ।" स्यात्संवदनमा. लोचे वशीकारे नपुंसकमिति मेदिनी" द्वे मणिमंत्रादिना वशीकरणस्य । मूलकर्म । ओषधीनां मूलैरुच्चाटनादि यत्कर्म तत्कार्मणमेकम् । विधूननं विधुवनं “विधुननमित्यपि जटाधरः ” द्वे कंपनस्य । तर्पणं प्रीणनं अवनं त्रीणि तृप्तेः ॥४॥ पर्याप्तिः परित्राणं हस्तधारणं " हस्तवारणमित्यपि " त्रीणि वधोद्यतनिवारणस्य | सेवनं सीवनं स्यूतिः त्रयं सूचीक्रियायाः । शिवणे इति लौकिकभाषायाम् । " सेवस्तु सेवनं स्यूतिरिति पाठो वा ।” विदरः स्फुटनं " स्फोटनमिति भरतमालायाम् ।” भिदा त्रयं द्विधाभावस्य । उकलणे इति लौकिकभाषायाम् ॥५॥ आक्रोशनं अभीषंग: “ अभिषंग इत्यपि । उपसर्गस्येति दीर्घत्वविकल्पात् " द्वे गालिप्रदानस्य शिव्या देणे इति प्रसिद्धस्य । संवेदः वेदना द्वे अनुभवस्य । तत्र वेदना न पुमान् । “अतो वेदनमित्यपि ।" संमूर्छनं अभिव्याप्तिः द्वे सर्वतो व्याप्तेः। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy