SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २] www.kobatirth.org 64 तृतीयं कांडम्. प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिंगमुन्नयेत् ॥ कर्म किया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ साकल्यासंगवचने पारायणपरायणे । Acharya Shri Kailashsagarsuri Gyanmandir प्रकरणैः सजातीयानि निबद्धानि । अत्रापि कांडे सुकृत्यादीनि विशेष्यनिनानि न्यबध्नात् । इदानीं पूर्वेषां संकीर्णत्वापत्तिभयेन ये पूर्वं नोक्तास्तत्संग्रहार्थं संकीर्णप्रकरणमारभते || अत्र हि कर्मक्रियादयो भाववचनाः अपरस्परादिर्विशेष्यनिघ्नः । स्तंबघ्नादिः करणवचनः । तथा समूहवचन आपूपिकादिः । एवं संकीर्णैः संकीणीयैः संकीर्णलिंगैश्च कथनात्संकीर्णवर्गोऽयम् । भिन्नजात्यर्थसंसर्ग एव हि संकरः । स चात्र प्रायेण विद्यत इति इहैव तद्व्यपदेशः । नन्वत्र संकीर्णत्वे विशेषविधानाभावे च कथमत्र लिंगज्ञानं स्यादित्याकांक्षायां तदुपायमाह । प्रकृतीति । संकीर्णनानि अत्र वर्गे वक्ष्यमाणलिंगसंग्रहोक्तरीत्या प्रकृत्यर्थेन प्रत्ययार्थेन च आद्यशब्दात्कचिद्रूपभेदादिना लिंगमुन्नयेत् ऊहेत् । तत्र प्रकृत्यर्थेन यथा । अपरस्परेति विभक्तिप्रकृतित्वात्प्रकृतिः । तस्याः सततक्रियासंबंधात् क्रियायोगः । अपरत्वादिगुणयोगश्च । एवं गुणद्रव्यक्रियायोगोपाधिभिः परगामिन इत्यभिधेयलिंगत्वम् । प्रत्ययार्थेन यथा । स्फातिप्रभृतीनां क्तिन्नादिप्रत्ययांतानां स्त्रीभावादावनिक्तिन्निति वक्ष्यमा - णत्वात्स्त्रीलिंगत्वम् । तथा संधिप्रभृतीनां किप्रत्ययांतानां कोघोः किरिति वक्ष्यमाणत्वात्पुंस्त्वं रूपभेदेन कर्मादेः क्लीवत्वादि । साहचर्येण च डिंबे डमरविप्लवाविति डिंब - स्य पुंस्त्वं संकीर्ण इत्युपलक्षणम् । वर्गांतरेष्वप्यनिश्चितलिंगानां मुत्प्रीतिरित्यादीनां प्रकृतिप्रत्ययादिभिरेव लिंगनिश्चयात् । कर्म क्रिया द्वे क्रियायाः । तच्छब्देन क्रिया परामृश्यते । क्रियासातत्ये गम्ये सति अपरस्परा इत्येकं नाम अपरस्पराः साथ गच्छति । अपरे च परे च संघाः सततं गच्छंतीत्यर्थः । सातत्यमविच्छेदः । अपरस्पराः क्रियासातत्य इति सुट् निपात्यते । सातत्ये किं । अपरस्पराः सकृद्गच्छंति । वाच्यलिंगत्वादपरस्परा योषितः | अपरस्पराणि कुलानि । " निर्दिष्टं कर्म सातत्यं सुधीभिरपरस्परमिति भागुरिणोक्तत्वात् । तत्सातत्ये क्रियायाः क्रियावतां च नैरंतर्ये । तद्यथा । क्रियासातत्ये अपरस्परं गच्छेति । क्रियावतां च सातत्ये तु लिंगत्रयम् " ॥ १ ॥ साकल्यवचनं पारायणं । पारस्यायनम् । पूर्वपदादिति णत्वम् । आसंगवचनं परायणं पारायणं समासंग तुरायणमित्यपि पाठ: । तुर त्वरणे । तुरस्य अयनम् । For Private And Personal २७७ ܐܐ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy