SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७१ तृतीयं कांडम्. प्रसव्यं प्रतिकूलं स्यादपसव्यमपटु च॥ वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥ संकट ना तु संबाधः कलिलं गहनं समे ॥ संकीर्णे संकुलाकीर्णे मुंडितं परिवापितम् ॥ ८५॥ ग्रंथितं मंदितं दृब्धं विसृतं विस्तृतं ततम् ॥ अंतर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे ।। ८६ ॥ वेल्लितखिताधूतचलिताकंपिता धुते ॥ नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः॥ ८७॥ परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम् ॥ प्रतिकूल अपसव्यं अपष्टु चत्वारि विपरीतस्य । “ प्रगतं सव्यात्प्रसव्यम् । यद्वाम शरीरं तत्सव्यं एकम् । यद्दक्षिणं शरीरं तदपसव्यं एकम् ॥८४॥ संकटं संबाधः हे अल्पावकाशे वर्मादौ । ना पुमान् । कलिलं गहनं द्वे दुरधिगम्यस्य । यथा गहनं शास्त्रम् । दुनिमित्यर्थः । संकीर्ण संकुलं आकीर्णं त्रीणि जनादिभिरत्यंतमिश्रस्य । “यथा संकीर्णवर्गः। केचित्तु एतान्पूर्वपर्यायानाहुः। संकीर्णमृषिपत्नीनामिति प्रयोगात् ।" मुंडितं परिवापितं द्वे कृतमुंडनस्य ॥ ८५॥ ग्रंथितं । प्रथितमित्यपि पाठः। संदितं “ गुंफितं गुफितं चेत्यपि पाठः " दृब्धं त्रीणि गुंफितस्य । विसृतं विस्तृतं ततं त्रीणि लब्धप्रसरस्य । “विस्तीर्यते स्म विस्तृतम्।" अंतर्गतं विस्मृतं द्वे "विस्मृतस्य । विस्मयते स्म विस्मृतम् ।” प्राप्तं प्रणिहितं द्वे लब्धस्य । “प्राप्यते स्म प्राप्तम्" ॥८६॥ वेल्लितः प्रेखितः आधूतः चलितः आकंपितः धुतः षडीपत्कंपितस्य । "वेल्लयते स्म वेल्लितः । वेल्लू चलने । खोलितस्तरलितोल्लासितांदोलितावपीति कोशांतरम् ।" नुत्तः नुन्नः अस्तः निष्ठयूतः निष्टतः इत्यपि ।आविद्धः क्षिप्तः ईरितः सप्त प्रेरितस्य । “ नुद्यते स्म नुत्तः " ॥४७॥ परिक्षिप्तं निवृतं द्वे प्राकारादिना सर्वतो वेष्टितस्य । “ नित्रियते स्म निवृतम् । वृञ् आवरणे ।" मूषितं मुषितं द्वे चोरितस्य । “ मुष्यते स्म मूषितम् ।" प्रवृद्धं प्रसृतं द्वे प्रसरणयुक्तस्य । प्रसरति स्म प्रसृतम् ।" न्यस्तं निसृष्टं द्वे निक्षिप्तस्य । “ निसृज्यते स्म निसृष्टम् । सृज विसर्गे । " गुणितं आहतं द्वे अभ्यावर्तितस्य । यथा पंचभिराहताश्चत्वारो For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy