SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६८ www.kobatirth.org सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः नेदिष्ठमंतिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ॥ वर्तुलं निस्तलं वृत्तं बंधुरं तून्नतानतम् ॥ ६९ ॥ उच्च प्रांशुन्नतोदग्रोच्छ्रितास्तुंगे ऽथ वामने ॥ न्यङ्नीच खर्व-हस्वाः स्युरखाग्रे ऽवनतानतम् ॥ ७० ॥ अरालं वृजिनं जिह्ममूर्मिमत्कुंचितं नतम् ॥ आविद्धं कुटिलं मं वेल्लितं वक्रमित्यपि ॥ ७१ ॥ ऋजावजिह्मप्रगुणौ व्यस्ते त्वमगुणाकुलौ ॥ शाश्वतस्तु ध्रुवो नित्यसदातनसन्ातनाः ॥ ७२ ॥ स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥ कालव्यापी स कूटस्थः स्थावरो जंगमेतरः ॥ ७३ ॥ अंतिकतमं द्वे अतिनिकटस्य । दूरं विप्रकृष्टकं द्वे ॥ ६८ ॥ दवीयः दविष्टं सुदूरं त्रयमत्यंतदूरस्य । दवीयांसौ । दीर्घ आयतं द्वे “ दीर्घस्य । " वर्तुलं निस्तलं 1 वृत्तं " त्रीणि वर्तुलस्य । ” यत्स्वभावादुन्नतमुपाधिवशादीषन्नतं च तद्वंधुरमित्यर्थः " बंधूरमित्यपि ” एकम् ॥ ६९ ॥ उच्चः प्रांशुः उन्नतः उदग्रः उच्छ्रितः तुंगः षट् उन्नतस्य । “ उच्चैस्त्वमस्य उच्चः । उन्नति स्म उन्नतः । " वामनः न्यक् नीचः खर्वः म्हस्वः पंच व्हस्वस्य । न्यक् चांतः । स्त्रियां तु नीची । अवाग्रं अवनतं । आनतं 1 त्रयमधोमुखस्य । “अवनतमग्रमस्य अवाग्रम् 1 ॥ ७० ॥ अरालं वृजिनं जिनं ऊर्मिमत् कुंचितं नतं आविद्धं कुटिलं भुनं वेल्लितं वक्रं एकादश वक्रस्य । “कुटिं कौटिल्यं लाति कुटिलम् " ॥ ७१ ॥ ऋजुः अजिम: प्रगुण: त्रीण्यवक्रस्य । " भिन्नो जिद्मादजिद्म: । " व्यस्तः अप्रगुणः आकुलः त्रयमाकुलस्य । भिन्नः प्रगुणादप्रगुणः । " शाश्वतः ध्रुवः नित्यः सदातनः सनातनः पंच नित्यस्य । " 66 'शश्वद्भवः शाश्वतः " || ७२ || स्थास्नुः स्थिरतरः स्थेयान् त्रीण्यतिस्थिरस्य । " स्थानशीलः स्थास्नुः । " स्थेयांसौ । य एकरूपतया एकेनैव स्वभावेन कालव्यापी कालस्य व्यापक आकाशादिः स कूटस्थः कूटो निश्चलः सन् तिष्ठतीति । कूदो ऽस्त्री निश्चले राशाविति मेदिनी । स्थावर जंगमेतरः द्वे अचरस्य ॥ ७३ ॥ 46 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy