SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २६७ प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु॥ पुरुहूंः पुरु भूयिष्ठं स्फॉरं भूयश्च भूरि च॥ ६३॥ पर शताधास्ते येषां परा संख्या शतादिकात् ॥ गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ।। ६४॥ विश्वमशेष कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।। समग्रं सकलं पूर्णमखंडं स्यादनूनके ॥ ६५॥ घनं निरंतरं सांद्रं पेलवं विरलं तनु ॥ समीपे निकटासन्नसनिकृष्टसनीडवत् ॥ ६६ ॥ सदेशाभ्याशसविधसमर्यादसवेशवत् ॥ उपकंठांतिकाभ्याभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७॥ संसते त्वव्यवहितमपदोतरमित्यपि ॥ मिति च ।" पुरु भूयिष्ठं स्फारं " स्फिरमित्यपि ।” भूयः भूरि द्वादश बहुलस्य । पुरुद्वौ । क्लीवे तु पुरुहु ॥ ६३ ॥ येषां संख्येयानां संख्या शतात्सहसाच्च परा ते क्रमेण परःशताः परःसहस्राः स्युरित्यर्थः एकैकम् । राजदंतादित्वाच्छतसहस्रयोः परनिपातः । पारस्करादित्वात्सुट् । विशेष्यनिघ्नत्वाद्वाच्यलिंगता । यलक्ष्यम् । परःशतानां विदुषां समाज इति । गणनीयं गणेयं वे गणयितुं शक्यस्य । संख्यातं गणितं द्वे यस्य संख्या कृता तस्य । समं सर्वम् ॥ ६४॥ विश्वं अशेषं कृत्वं समस्तं निखिलं अखिलं निःशेषं समग्रं सकलं पूर्ण " पूर्वमित्यपि पाठः । पूर्व पूरणे ।" अखंडं अनूनकं चतुर्दश समग्रस्य ॥६५॥ धनं निरंतरं सांद्रं त्रीणि निबिडस्य । “ निर्गतमंतरमस्मात्तन्निरंतरम् ।” पेलवं विरलं तनु त्रीणि विरलस्य । समीपः निकटः आसन्नः सन्निकृष्टः सनीडः ॥ ६६ ॥ सदेशः अभ्याशः “ अभ्यास इति दंत्यांत इति मुकुटः ।" सविधः समर्यादः सवेशः उपकंठः अंतिकः अभ्यर्णः अभ्यनः अभितः .पंचदश समीपस्य । तत्राभित इत्यव्ययम् । “ समान नीडं वासस्थानमस्य सनीडः । उपगतः कंठः सामीप्यमस्य उपकंठः" ॥ ६७ ॥ संसक्तं अव्यवहितं अपदांतरं “ अपटांतरमित्यपि" त्रीणि संलग्नस्य । “ न व्यवधीयते स्म अव्यवहितम् ।" नेदिष्टं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy