SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६३ तृतीयं कांडम्. विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः॥४५॥ शिश्विदानो ऽकृष्णकर्मा चपलश्चिकुरः समौ ॥ दोषकदृक् पुरोभागी निकृतस्त्वनृजुः शठः॥ १६ ॥ कर्णेजपः सूचकः सात्पिशुनो दुर्जनः खलः ॥ नृशंसो घातुकः कूरः पापो धूर्तस्तु वंचकः॥ १७॥ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः॥ कदर्ये कृपणक्षुद्रकिंपानमितंपचाः॥४८॥ निःवस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः॥ विष्य इत्येकम् । यो मुसलेन वध्यः स मुसल्यः एकम् ॥ ४५ ॥ शिश्विदानः अकृ. कणकर्मा द्वे पुण्यकर्मणः । “ शिश्विदानः कृष्णकर्मेति पाठे द्वे पापकर्मणः । अत्र श्विता वर्णे इति धातोः श्वितेर्दश्चेत्यानच् दत्वं सनो लुक् च । श्वेतितुमिच्छति शिश्विदानः ।" चपल: चिकुरः हे यो विचारमंतरेण झटिति वधादिकार्यमाचरति तस्मिन्। दोषैकदृक् पुरोभागी द्वे दोषमात्रं पश्यतः । “दोष एकस्मिन् दृक् ज्ञानं यस्य दोषैकदृक् ।" निकृतः अनृजुः शठः त्रयं यस्यांतःकरणं वकं तस्य । “निकुंतति निकृतः। कृती छेदने" ॥४६॥ कर्णेजपः तत्पुरुष कृतीति सप्तम्या अलुक् । सूचकः द्वे कर्णे परापवादं वदतः । विस्मृतबोधकस्येति कश्चित् । पिशुनः दुर्जनः खलः त्रयं परस्परभेदनशीलस्य । पिशुनः सूचकस्यापि पर्यायो वा । नृशंसः घातुकः क्रूरः पापः चत्वारि परद्रोहशीले । “नृन शंसति नृशंसः ।” धूर्तः वंचकः द्वे प्रतारणशीलस्य । “धर्वति हिंसति धूर्तः" ॥४७॥ अज्ञः मूढः " मुग्ध इत्यपि" यथाजातः मूर्खः वैधेयः बालिशः षण्मूर्खस्य । बालिशस्तु शिशौ मूर्खे इति । “जातं जन्मकालविशेषमनतिक्रम्य वर्त्तते तदस्यास्ति यथाजातः ।" कदर्यः कृपणः क्षुद्रः किंपचानः मितंपचः। मितनखे चेति खच् मुमागमः। पंच यो धर्मात्मपुत्रदारादिकं पीडयन् लोभादर्थसंचयं करोति तस्य । “कुत्सितो ऽर्यः स्वामी कदर्यः । किंपचः अनमितंपच इति छेदो का । तत्र न मितंपचो ऽमितंपचः । तद्भिन्नो ऽनमितंपचः"॥४८॥ निःस्वः दुर्विधः दीनः दरिद्रः दुर्गतः पंच दरिद्रस्य । " स्वान्निष्क्रांतो निःस्वः ।" वनीयकः “मनीपक For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy