SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १] तृतीयं कांडम्. २६१ 66 समौ कुवादकुचरौ स्यादसौम्यस्वरो ऽस्वरः || ३७ ॥ रवणः शब्दनो नांदीवादी नांदीकरः समौ ॥ जो ज्ञऍडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ तूष्णींशीलस्तु तूष्णीको नमो वासा दिगंबरे || निष्कासितो ऽवकृष्टः स्यादपध्वस्तस्तु धिकृतः ॥ ३९ ॥ आवऽभिभूतः स्यादापितः साधितः समौ ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ४० ॥ दयोश्चेति कोः कदादेशः । गह्यं वदति गर्ह्यवादी ।" कुवादः कुचरः द्वे दोषकथनशीले । “ कुत्सितं चरति कुचरः । " असौम्यस्वर : अस्वरः द्वे काकादिस्वरवंदपस्वरयुक्तस्य || ३७ ॥ रवणः शब्दनः द्वे शब्दशीलस्य । नांदीवादी नांदीकरः द्वे स्तुतिविशेषवादिन: । “ नांदीं वदति तच्छील: नांदीवादी । " आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रवर्तते ॥ देवद्विजनृपादीनां तस्मान्नांदीति कीर्त्यत इति भरतः । जडः अज्ञः द्वे अत्यंतमूढस्य । यदुक्तम् । इष्टं वानिष्टं वा सुखदुःखे वा न चेह यो मोहात् । विंदति परवशग: स भवेदिह जडसंज्ञकः पुरुष इति । यो वक्तुं श्रोतुं च शिक्षितो न भवति स एडमूकः । अनेडमूक इति पाठे नास्त्येडो मूको ऽस्मादिति विग्रहः । एडो बधिरः । त्रिलिंगो ऽनेडमूकः स्याच्छठे वाक्श्रुति-, वर्जित इति रभसः ॥ ३८ ॥ तूष्णींशीलः तूष्णीकः द्वे तूष्णींभावयुक्तस्य । शीले को मलोपश्चेति वार्तिकेन तूष्णीमो मस्य लोप: । “ तूष्णींशीलं यस्य तूष्णींशीलः । नमः अवासाः दिगंबर: त्रीणि नग्नस्य । अवाससौ । निष्कासितः निष्कामित इत्यपि अवकृष्टः द्वे निर्गमितस्य । अपध्वस्तः धिकृतः द्वे निर्भर्टिस - तस्य ॥ ३९ ॥ आत्तगर्वः “ आत्तगंध: ।" गंध गंधक आमोदे लेशे संबंधगर्वयोरिति विश्वः । गंधो गर्यो लवो ऽपि चेति त्रिकांडशेषः ।” अभिभूतः द्वे भग्नदर्पस्य | आत्तगंधः पलायित इति कोशांतरे । पलायनकर्तुरपि । लक्ष्यम् । कर्णो ऽपि भूत्वा कथमात्तगंध: इति भारतचंपुः । “ चत्वारो ऽपि पर्याया इत्येके । दापित: “ दायित इत्यपि । तत्र दय दाने इति धातुः " साधितः द्वे " धनादिकं प्रदापितस्य प्रदापितस्य धनादेर्वा ।" धनादिकं दापयतीति दापित इति राजमुकुटः । प्रत्यादिष्टादि चतुष्कं निराकृतस्य ॥ ४० ॥ निकृतः विप्रकृतः द्वे विवर्णीकृतस्य । 1 29 1 "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy