SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. अधिकधिः समृद्धः सात्कुटुंबव्याप्टतस्तु यः॥ ११ ॥ सादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ॥ वरांगरूपोपेतो यः सिंहसंहननो हि सः॥ १२ ॥ निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा ॥ अवाचि मूको ऽथ मनोजवसः पितृसन्निभः॥ १३॥ सत्कृत्यालंकृतां कन्यां यो ददाति स फॅकुदः॥ लक्ष्मीवाँल्लक्ष्मणः श्रीलः श्रीमान स्निग्धस्तु वत्सलः॥१४॥ स्यादयालुः कारुणिकः कृपालुः सूरतः समाः॥ स्वतंत्रो ऽपावृतः स्वैरी स्वच्छंदो निवग्रहः ॥ १५॥ भुवौ । नेतारौ । अधिद्धिः समृद्धः द्वे सुसंपन्नस्य । “ अधिका ऋद्धिर्यस्य अधिकद्धिः। " कुटुंबव्यापृतः ॥ ११ ॥ अभ्यागारिकः उपाधिः त्रीणि कुटुंबपोषणादिव्यापारयुक्तस्य । “ अभ्यागारे नियुक्तः अभ्यागारिकः । अगारांताटन इकादेशः । उपाधिर्नित्यं पुंसि । अंगान्यवयवाः रूपं लावण्यं वरैरंगरूपैरुपेतो यः स सिंहसंहनन इत्येकम् ॥ १२ ॥ यः सत्वसंपदा व्यसने ऽप्यक्षुब्धं मनःसत्वं तत्संपत्त्या संपन्नः सन्कार्य करोति स निर्वार्य इत्येकम् । “ निर्धार्य इत्यपि । संपन्न इत्यत्र संयुक्त इति पाटः । व्यसने ऽभ्युदये चापि ह्यविकारं सदा मनः । तत्सत्वमिति च प्रोक्तं नयविद्भिर्बुधैः किलेति स्मरणात् ।" अवाक् मूकः द्वे “ मूयते बध्यते वागस्य ।" मनोजवसः । “ मनोजव इत्यपि । मनोजवः पितृसधर्माण इति नाममाला ।" पितृसन्निभः द्वे पितृतुल्यस्य ॥ १३ ॥ परिणेत्रे आदरपूर्वकमलंकृतां कन्यां यो ददाति स कुकुद इत्येकम् । “ कुकुद इत्यपि ।" लक्ष्मीवान् लक्ष्मणः श्रील: "श्लील इत्यपि" श्रीमान् चत्वारि लक्ष्मीवतः। स्निग्धः वत्सलः वत्से पुत्रादिस्नेहपात्रे ऽभिलाषोऽस्यास्ति द्वे स्नेहयुक्तस्य ॥ १४॥ दयालुः कारुणिकः कृपालुः सूरतः “ सुरत इत्यपि" चत्वारि दयाशीलस्य । स्वतंत्रः अपावृतः स्वैरी “ स्वैर इत्यपि " स्वच्छंदः निरवग्रहः पंच स्वच्छंदस्य । “स्वः आत्मा तंत्रं प्रधानं यस्य स्वतंत्रः " ॥ १५ ॥ परतंत्रः पराधीनः परवान् नाथवान् चत्वारि पराधीनस्य । “ परः स्वाम्यस्यास्ति परवान् ।" परवंतौ । अधीनः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy