SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५४ सटीकामरकोशस्य विशेष्यनिघ्नवर्गः परीक्षकः कारणिको वरदस्तु समईकः॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥७॥ . दुर्मना विमना अंतर्मनाः स्यादुत्क उन्मनाः॥ दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८॥ तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॥ प्रतीते प्रथितरण्यातवित्तविज्ञातविश्रुताः॥९॥ गुणैः प्रतीते तु कृतलक्षणातलक्षणौ ॥ इभ्य आढयो धनी स्वामी त्वीश्वरः पतिरीशिता ॥१०॥ अधिभर्नायको नेता प्रभुः परिवृढो ऽधिपः ॥ वरदः समर्द्धकः द्वे वराणां दातरि । हर्षमाणः विकुर्वाणः प्रमनाः हृष्टमानसः चत्वारि हृष्टचेतसः । “प्रकृष्टं मनो यस्य प्रमनाः" ॥७॥ दुर्मनाः विमनाः अंतर्मनाः त्रीणि सांतानि व्याकुलचेतसः “दुःस्थितं मनो ऽस्य दुर्मनाः । विगतं विविधं वा मनो यस्य विमनाः ।" उत्कः उच्छब्दात्स्वार्थे कन् । उन्मनाः द्वे उत्कंठितस्य । " उद्गतं मनो ऽस्य उन्मनाः ।" दक्षिणः सरल: उदारः त्रयं सरलस्य । दक्षति वर्धते ऋज्वाशयत्वादक्षिणः । यो दाता चासौ भोक्ता च तत्र सुकल इत्येकम्॥८॥ तत्परः प्रसितः आसक्तः त्रीणि "तात्पर्ययुक्तस्य । तत्परं उत्तमं यस्य तत्परः।" इष्टार्थोद्युक्तः उत्सुकः द्वे अभिमतार्थे सोद्योगस्य । प्रसितासक्ताविष्टा उद्युक्त इति पाठे आविष्टांतं चतुष्कमासत्ते । “पंचापि तत्परपर्याया इत्येके ।" प्रतीत: प्रथितः ख्यातः वित्तः विज्ञातः विश्रुतः षट् ख्यातस्य । “ प्रथते स्म प्रथितः । प्रथ प्रख्याने "॥९॥ कृतलक्षणः आहतलक्षणः “ आहितलक्षण इत्यपि" द्वे शौर्यादिभिः ख्याते । “ लक्षणं नाम्नि चिह्ने चेति विश्वः । आहतमभ्यस्तं लक्षणमस्य । आहतं गुणिते ऽपि स्यादिति विश्वः ।" यल्लक्ष्यम् । ककुत्स्थ इत्याहतलक्षणोऽभूदिति । इभ्यः आढ्यः धनी त्रीणि “इभ्यो धनवतीभ्यां तु करेण्वां सल्लकीतराविति हेमचंद्रः । बहुधनमस्य धनी ।" स्वामी ईश्वरः । ईश्वरो मन्मथे शंभौ नाथे स्वामिनि वाच्यवत् इति विश्वमेदिन्यौ । पतिः ईशिता ॥ १० ॥ अधिभूः नायकः नेता प्रभुः परिवृढः अधिपः दश प्रभोः । ईशितारौ । अधि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy