SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ॥ हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥ प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ॥ वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ दक्षिणीय दक्षिणास्तत्र दक्षिण्य इत्यपि ॥ ५ ॥ स्युर्वदन्यस्थूललक्ष्यं दानशौंडा बहुप्रदे || जैवातृकः स्यादायुष्मानंतर्वाणिस्तु शास्त्रवित् || ६ || For Private And Personal २५३ (6 66 धात्र्यामलक्योः स्याद्धन्यं पुण्यवति त्रिष्विति विश्वमेदिन्यौ | सुकृतमस्यास्ति सुकृती ।" धनं लब्धा धन्यः धनायार्ह इत्यर्थः । महेच्छः महाशयः द्वे उदारं चित्तं यस्य तस्य दयालोः । “ आशयः स्यादभिप्राये मानसाधारयोरपीति मेदिनी । " हृदयालुः सुहृदयः सहृदय इति पाठ: । अत्र प्रशस्तपरत्वं हृदयशब्दस्य । हृदयवान् हृदय इत्यपि " द्वे यस्य चित्तं प्रशस्तं तस्य । महोत्साहः महोद्यमः द्वे दुरापेSपि कृत्ये ऽध्यवसितक्रियस्य । " महानुद्यमो ऽस्य महोद्यमः " ॥ ३ ॥ प्रवीणः निपुण: अभिज्ञः विज्ञः निष्णातः शिक्षितः वैज्ञानिकः “ व्रीह्यादिवाट्ठनि विज्ञानिक इत्यपि " कृतमुखः कृती कुशलः दश प्रवीणस्य । कृतं कर्म प्रशस्तमस्य कृती ” ॥ ४ ॥ पूज्यः प्रतीक्ष्यः द्वे । एतल्लक्ष्यम् । भक्तिः प्रतीक्ष्येषु कुलोचिता इति । सांशयिकः संशयापन्नमानसः द्वे संशयमापन्नं मानसं यत्र स्थाण्वादी तस्य । तथा च संशयविषयीभूतो ऽर्थः सांशयिक इति दीक्षिताः । संशयमापन्न इति ठञ् । दक्षिणीयः दक्षिणार्हः दक्षिण्यः “ दाक्षिण्य इत्यपि " त्रीणि यो दक्षिणामर्हति तस्य ॥ ५ ॥ वदान्यः 66 वदन्य इत्यपि " स्थूललक्ष्यः “ स्थूललक्ष इत्यपि " दानशौंड : बहुप्रदः चत्वारि दानशूरस्य । मां याचस्वेति वदति वदान्यः । स्थूलैर्महद्भिर्लक्ष्यते स्थूललक्ष्यः । " जैवातृकः आयुष्मान् द्वे । " जैवातृकः पुमान्सोमे कृषकायुष्मतोत्रिष्विति विश्वमेदिन्यौ । अतिशयितमायुरस्यायुष्मान् । " अंतर्वाणिः शास्त्रवित् द्वे शास्त्रज्ञस्य । “अंतर्वाणयति । वण शब्दे । " ॥ ६ ॥ परीक्षकः कारणिकः द्वे प्रमाणैरर्थनिश्चायकस्य । “कर णैश्चरति कारणिकः । " 66 66
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy