SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [दिग्वर्गः मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी॥ इल्लास्तच्छिरोदेशे तारका निवसंति याः॥ २३॥ बृहस्पतिः सुराचार्यों गीष्पतिर्धिषणो गुरुः॥ जीव आंगिरसो वाचस्पतिश्चित्रशिखंडिजः ॥ २४ ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः॥ अंगारकः कुजो भौमो लोहितांगो महीसुतः ॥२५॥ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ ॥ तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुतुदः ॥२६॥ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखंडिनः ॥ राशीनामुदयो लग्नं ते तु मेषवृषादयः॥ २७॥ द्रपदास। पूर्वे प्रोष्ठपदे द्वे उत्तरे च द्वे एवं चतुःसंख्याकत्वाद्बहुवचनम् । स्त्रियः स्त्रीलिंगाः स्युः॥२२॥ मृगशीर्ष “शीर्षे इत्यपि पाठः" मृगशिरः आग्रहायणी अयं मृगशीर्षस्य । तस्य मृगशीर्षस्य शिरोदेशे याः पंच तारा निवसंति ता इल्वलाः (इन्वकाः) एकम् ॥२३॥ बृहस्पतिः सुराचार्यः गीष्पतिः धिषणः गुरुः जीवः आंगिरसः वाच. स्पतिः चित्रशिखंडिजः नवकं बृहस्पतेः । चित्रशिखंडी अंगिराः तज्जः ॥२४॥ शुक्रः दैत्यगुरुः काव्यः उशनाः भार्गवः कविः षटुं शुक्रस्य । उशनेति सांतं ऋदुशनेत्यनङ् । अंगारकः कुजः भौमः लोहितांग: महासुतः पंचकं मंगलस्य ॥२५॥ रौहिणेयः बुधः सौम्यः त्रयं बुधस्य । सौरिः “शौरिरपि” “सौरः" शनैश्चरः द्वे शनेः । तमः राहुः स्वर्भानुः सैंहिकेयः विधुतुदः पंच राहोः । तमः सांत क्लीवे पुसि च कचित् । “अदंतः। स्वर्भानुस्तु तमो राहुरिति पुंस्कांडे रत्नकोशामरमालयोर्दर्शनात्" ॥२६॥ मरीच्यत्रिमुखाः सप्तर्षयश्चित्रशिखंडिसंज्ञाः एकम् । मुखशब्दा. त्पुलहपुलस्त्यादयः सप्तर्षयः। "ते यथा । मरीचिरंगिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखंडिनः।" राशीनामुदयोलग्नमित्युच्यते एकम् । मेषवृषादयो राशयः स्युः एकम् । आदिना मिथुनकाटकादयः। “मेषो वृषो ऽथ मिथुनं कर्कटः सिंहकन्यके । तुला च वृश्चिको धन्वी मकरः कुंभमीनको" ॥२७॥ सूरः (शूरः) सूर्यः अर्यमा आदित्यः द्वादशात्मा दिवाकरः भास्करः अहस्करः बन्नः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy