SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३] प्रथमं कांडम्. अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥ शीतं गुणे तदर्थाः सुषीमः शिशिरो जडः ॥ तुषारः शीतलः शीतो हिमः सप्तान्यलिंगकाः ॥ १९ ॥ ध्रुव औत्तानपादिः स्यादगस्त्यः कुंभसंभवः ॥ मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ नक्षत्रमृक्षं भं तारा तारकाप्युड वा स्त्रियाम् ॥ दाक्षायण्यt विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥ राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया || समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥ छवि: चत्वारि शोभामात्रस्य शोभाकांतिरित्यत्राभिख्याकांतिरित्यपि पाठः ॥ १७ ॥ अवश्यायः नीहारः तुषारः तुहिनं हिमं प्रालेयं मिहिका (महिका) सप्तकं हिमस्य । हिमानी हिमसंहतिः द्वे महतो हिमस्य । एवमुक्तलिंगा अवश्यायादयः ॥ १८ ॥ नपुंसकलिंगः शीतशब्दश्च गुणे स्पर्शविशेषे एव नतु गुणिनि । सुषीमः (सुषिमः सुशीमः) शिशिरः जडः तुषारः शीतलः शीतः हिमः एते सप्त तद्वदर्थाः तद्वान् शीतगुणवानर्थो येषां ते तथा ते चान्यलिंगकाः विशेष्यनिघ्नाः । तुषारहिमशीत शब्दा निरूढलक्षणया गुणिन्यपि वर्तत इत्युभयत्र पठिताः ॥ १९ ॥ ध्रुवः औत्तानपादिः द्वे उत्तानपादपुत्रस्य । अगस्त्यः कुंभसंभव: मैत्रावरुणिः । " मैत्रावरुणः और्वशेयागस्त्य मैत्रावरुणास्त्वाग्निमारुताः इतिनामनिधानात् " त्रयमगस्त्यस्य । भगस्तिरित्यपि) अथागस्त्यः कुंभयोनिरगस्तिः कलशीसुत इति शब्दार्णवः । अस्यागस्त्यस्य धर्मी पत्नी लोपामुद्रा एकम् || २० || नक्षत्रं ऋक्षं भं तारा तारका उडु इति षङ्कं नक्षत्रमात्रस्य । उड्डु खीनपुंसकयोः अपिशब्दात्तारकापि तथा । नक्षत्रे चाक्षिमध्ये च तारकं तारकापि चेति शाश्वतः | अश्विनीत्यादिताराः अश्विन्यादि सप्तविंशति नक्षत्राणि दाक्षायणीसंज्ञकानि एकं । अश्वयुक् अश्विनी द्वे अश्विन्याः || २१ || राधा विशाखा द्वे विशाखायाः । पुष्यः सिध्यः तिष्यः त्रयं पुष्ये । श्रविष्ठा धनिष्ठा द्वे धनिष्ठायाः । श्रविष्ठया समा श्रविष्ठातुल्येत्यर्थः । प्रोष्ठपदाः भाद्रपदाः द्वयं पूर्वाभाद्रपदोत्तराभा Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal १९
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy