SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ सटीकामरकोशस्य तृतीयं कांडम्. विशेष्यनिम्नैः संकीर्ण नार्थैरव्ययैरपि ॥ लिंगादिसंग्रहैर्वर्गाः सामान्य वर्गसंश्रयाः॥१॥ स्त्रीदाराधैर्यदिशेष्यं यादृशैः प्रस्तुतं पदैः॥ गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः॥२॥ श्रीगणेशाय नमः ॥ ॥ अथ तृतीयकांडो व्याख्यायते । तत्र वक्ष्यमाणवर्गानाह। विशेष्यनिनैरिति । सामान्ये साधारणत्वात्सामान्याख्ये ऽस्मिन्कांडे विशेष्यनिर्विशेष्यं स्त्रीदारादिपूर्वोक्तं तदधीनलिंगवचनैः सुकृत्यादिभिः शब्दैः तथा संकीर्णैः परस्परविजातीयाथैः कर्मपारायणादिभिः तथा नानार्थैः अनेकार्थेषु वर्तमानैर्नाकलोकादिभिः अव्ययैराडादिभिार्लंगसंग्रहैः स्त्रियामीदूद्विरामैकाजित्यादिभिरादिशब्दानामसंग्रहश्च लंकाशेफालिकेत्यादिभिः शब्दैरुपलक्षितास्तत्तन्नामका वर्गाः वक्ष्यंत इति शेषः । ते च वर्गाः स्वतंत्रा नेत्याह । वर्गसंश्रया इति । वर्गाः संश्रया येषां ते । पूर्वोक्तस्वर्गादिवर्गसंबंधिन एवेत्यर्थः ॥ १॥ इह शास्त्रे रूपादिभेदेनैव प्रायशो लिंगनिर्णयः तद्वदेवात्रापि वर्गे स्यादिति भ्रमनिरासार्थ व्यापकं लक्षणमाह । स्त्रीदाराद्यैरिति । यादृशैः स्त्रीलिंगत्वादियुक्तैः स्त्रीदाराद्यैः पदैर्यद्विशेष्यं स्त्रीदारादिरूपं यथा प्रस्तुतं प्रक्रांतं तस्य विशेष्यस्य भेदका व्यावर्तका गुणद्रव्यक्रियाविशिष्टाः शब्दास्तथा स्युः । विशेष्यस्य यादृशे लिंगवचने तादृशलिंगवचना एव भवेयुरित्यर्थः । तत्र गुणः सुकृतादिस्तद्विशिष्टो यथा । सुकृतिनी स्त्री । सुकृतिनो दाराः । सुकृति कुलम् । द्रव्यं दंडादि तद्विशिष्टो यथा । दंडिनी स्त्री । दंडिनो दाराः । दंडि कुलम् । क्रियावचनादिव्यापारस्तद्विशिष्टो यथा । पाचिका स्त्री । पाचका दाराः । पाचकं कुलम् ॥ २॥ सुकृती पुण्यवान् धन्यः त्रयं भाग्यसंपन्नस्य । “धन्या For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy