SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०] दितीय कांडम्. २४७ ऑस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ वृक्षादनी वृक्षभेदी टंकः पाषाणदारणः ॥ ३४ ॥ ककचो ऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ सूर्मी स्थूणा ऽयःप्रतिमा शिल्पं कर्म कलादिकम् ॥३५॥ प्रतिमानं प्रतिबिंब प्रतिमा प्रतियातना प्रतिच्छाया॥ प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥३६॥ वाच्यलिंगाः समस्तुल्यः सदृक्षः सदृशः सहक् ॥ साधारणः समानश्च स्युरुत्तरपदे त्वमी॥३७॥ आस्फोटनी " लास्फोटनी । वेधनी तु लास्फोटन्यां स्फोटनी वृषदेशिकेति वाचस्पतिः " वेधनिका द्वे मण्यादेर्वेधोपयुक्तस्य शस्त्रभेदस्य “ सामता इति ख्यातस्य" । कृपाणी कर्तरी द्वे स्वर्णपात्रादि विच्छिद्यते येन तस्य कातर इति ख्यातस्य । वृक्षादनी वृक्षभेदी द्वे वृक्षभेदनार्थस्य शस्त्रभेदस्य " वांकस, तासणी इति ख्यातस्य" । टंकः "तंक इत्यपि " पाषाणदारणः द्वे पाषाणदारणार्थस्य घनभेदस्य " टांकी इति प्रसिद्धस्य " ॥ ३४ ॥ कचः करपत्रं द्वे काष्टादिविदारणार्थस्य करवत इति ख्यातस्य । आरा चर्मप्रभेदिका द्वे चर्मखंडनार्थस्य शस्त्रभेदस्य आरी इति ख्यातस्य । सूर्मी “सूमिरिति वा" स्थूणा अयःप्रतिमा त्रयं लोहप्रतिमायाः । कलागीतनृत्यादिकं यत्कर्म तच्छिल्पम् । आदिना रथकारादिकर्म ॥ ३५ ॥ प्रतिमानं प्रतिबिंब प्रतिमा प्रतियातना प्रतिच्छाया प्रतिकृतिः अर्चा प्रतिनिधिः अष्टौ प्रतिमायाः । “ प्रतिकृत्य मीयते ऽनेन प्रतिमानम् । माङ् माने "। प्रतिनिधिः पुंसि । उपमा उपमानं हे उपमितकरणस्य । " भावे करणे च । येनोपमीयते या चोपमितिस्तयोरेते नामनी इत्यर्थः । केचित्तु पूर्वान्विते इत्याहुः "॥ ३६॥ समादिसप्तकं समांतरस्य । " सह मानेन वर्तते समान मानमस्येति वा समानः । एते वाच्यलिंगाः" । सदृक् शांतः । अमी निभसंकाशादयः उत्तरपदे स्थिताः सदृशपर्याया वाच्यलिंगाश्च स्युः ॥ ३७॥ यथा पितृनिभः पुत्रः । नित्यसमासोऽयं पित्रा सदृश इत्यर्थः । मातृनिभा कन्या मातुः सदृशीत्यर्थः । आदिना भूतरूपकल्पादिग्रहः । “ यथा पितृभूतः पितृरूपः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy