SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४६ सटीकामरकोशस्य [शूद्रवर्गः भारयष्टिस्तदालंबि शिक्यं काचो ऽथ पादुका ॥ ३०॥ पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ नधी वधी वरत्रा सादवादेस्ताडनी कशा ॥ ३१ ॥ चौडालिका तु कंडोलवीणा चंडालवल्लकी॥ नाराची स्यादेषणिका शाणस्तु निकषः कषः ॥ ३२ ॥ वचनः पत्रपरशुरीषिका तूलिका समे ॥ तैजसावर्तनी मूाँ भत्रा चर्मप्रसेविका ॥ ३३ ॥ सभ्याः । शिक्याधारस्कंधग्राहयोलगुड इति द्रविडाः । विहंगमेत्यपि पाठः। तस्यां भारयष्टयामालंबते तत्तदालंबि शिक्यं काचः स्यात् । काच: शिक्ये मणौ नेत्ररोगभेदे मृदंतर इति विश्वः । द्वे आलंबमानस्य रज्जुपंजरस्य “शिंकें इति ख्यातस्य ।" पादुका ॥ ३० ॥ पादू: उपानत् त्रयमपि स्त्रियां पादत्राणस्य “ जोडा इति ख्यातस्य ।” सैवोपानत् पदायता पदवत् आयता पादायामेन बद्धा अनुपदीना एकं अनुरायामे सादृश्ये वा अनुपदं बद्धा अनुपदीना उपानत् इति कौमुद्यामुक्तम् । " वाहाण इति ख्यातस्य"। नधी वध्री वरत्रा त्रयं चर्ममय्या रज्ज्वाः “ वाधी इति ख्यातायाः " । अश्वादेस्ताडनी रज्जुः कशा स्यात् एकं “जेरबंद इति ख्यातस्य । आदिना उष्ट्रगर्दभचोरादिग्रहः " ॥ ३१ ॥ चांडालिका " चंडा. लिकेत्यपि " कंडोलवीणा "कंटोलवीणेत्यपि कंडोलीति पृथगपि " चंडालबल्लकी त्रयं किनरीति ख्याताया अंत्यजवीणायाः । नाराची एषणिका द्वे स्वर्णकाराणां नाराचाकृतिर्या लोहशलाका तत्र " कांटा, तराजू इति ख्याते ।" शाण: निकषः कषः त्रीणि स्वर्णादि यत्र घर्षणेन परीक्ष्यते तस्याः शिलायाः " कसोटी, निसाणा इत्यादि ख्यातायाः" ॥ ३२ ॥ त्रश्चनः पत्रपरशुः द्वे स्वर्णादिच्छेदनार्थस्य परशोः " कानस इति ख्यातस्य ।” ईषिका “ इषिका इषीका इत्यपि " तूलिका द्वे शलाकाभेदस्य " सळई इति ख्यातस्य ।" तैजसं आवर्त्यते यत्र सा तेजसावर्तनी। स्वर्णादिपाकार्थः पात्र विशेषः मूषा स्यात् “मस इति ख्याता"।" मुषा मूषी मुषी । मूषा त्वावर्तनी मूषीति शब्दार्णवः । मूषस्तेय इत्यस्माद्भिदाद्यङि व्हस्वादिरपि । म्हस्वा मुषा मुषी ।" एकम् । भला चर्मप्रसेविका । “ चर्मप्रसेवक इत्यपि " द्वे अग्निज्वलनार्थस्य चर्मप्रसेवकस्य “भाता इति ख्यातस्य" ॥३३॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy