SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४४ सटीकामरकोशस्य [शूद्रवर्गः विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः॥ आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥२३॥ दक्षिणारुर्लुब्धयोगादक्षिणेर्मा कुरंगकः॥ चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥ २४ ॥ प्रतिरोधिपरास्कंदिपाटबरमलिम्लुचाः॥ चौरिका सैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने ॥२५॥ वीतंसस्तूपकरणं बंधने मृगपक्षिणाम् ॥ उन्माथः कूटयंत्रं स्याहागरा मृगबंधनी ॥ २६ ॥ तूपचारात् ॥ २२ ॥ यो ग्राम्यः सूकरः स विट्चरः स्यात् एकं “ गांवडुकर इति ख्यातस्य । यस्तरुणः पशुरजादिः स वर्करः एकं बकरा इत्यादि ख्यातस्य तरुणपशुमात्रस्य ।" आच्छोदनं मृगव्यं आखेटः मृगया चत्वारि पापद्धेः “शि. कारी इति ख्यातायाः। मृगया स्त्रियाम्" ॥२३॥ लुब्धयोगात् लुब्धकसंबंधादक्षिणारुदक्षिणे पार्श्वे ऽरुर्वणमस्य स कुरंगको दक्षिणेर्मा स्यात् । व्याधेन कृतवण इत्यर्थः एकम् । दक्षिणेर्माणौ । चौरः " पचाद्यचि चोर इत्यपि ।” ऐकागारिकः । एकमसहायं प्रयोजनमस्य । ऐकागारिकट चौरे इति निपातनात् साधुः । स्तेनः दस्युः तस्करः मोषकः ॥ २४ ॥ प्रतिरोधिः परास्कंदिः पाटश्चरः "पटञ्चर इत्यपि"। चोरजीर्णपटयोः पटचर इति नामानुशासनम्" । मलिम्लुचः दश चोरस्य । चौरिका “ चोरिकेत्यपि” । स्तन्यं स्तेयं । " स्तेनस्य भावः कर्म वा स्तैन्यमिति ष्यअंत केचिदिच्छंति । स्तेनाद्यन्नलोपश्चेति वार्तिकेण स्तेयमिति च सुसाधु । स्तेयं स्तैन्यं च चौर्ये स्याञ्चौरिकाचोरिके स्त्रियामिति वाच. स्पतिः"। चौर्य चत्वारि स्तेयस्य । चौरस्य भावः चौरिका । चौर्य धनं लोप्स्त्रं । स्यात् । “ लोत्रं । लोत्रमश्रुणि चोरित इति विश्वः । लोतमिति जटाधरः । एकम् ॥ २५ ॥ मृगपक्षिणां बंधननिमित्तं यदुपकरणं पाशजालादि स वीतंस इत्येकम् । "वितंस इत्यपि ।" उन्माथः कूटयंत्रं द्वे मृगपक्षिबंधनार्थं छलेन यात्रं निवेश्यते तत्र “ सांपळा इति ख्याते"। वागुरा मृगबंधनी द्वे जालीकृतरज्जुविशेषे “मृगांचे जाळे इति ख्याते" ॥ २६॥ शुल्बं “शुल्बेत्यपि ङीषंतापि" वराटकं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy