SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४२ www.kobatirth.org 1 सटीकामरकोशस्य Acharya Shri Kailashsagarsuri Gyanmandir [शूद्रवर्गः जीवतिकः शाकुनिको हौवागुरिकजालिकौ ॥ वैतंसिकः कौटिक मांसिकश्च समं त्रयम् ॥ १४ ॥ भृतको भृतिक कर्मकरो वैतनिकोऽपि सः ॥ वार्ताविह वैवधिको भारवाहस्तु भारिकः ।। १५॥ विवर्णः पामरो नीचः प्राकृतश्च ष्टथक्जनः ॥ निहीनो ऽपसदो जाल्मः क्षुल्लक श्वेतरश्व सः ॥ १६ ॥ भृत्ये दासेरदासेयदासँगोप्यकचेर्क्टकाः ॥ नियोज्य किंकरप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥ पराचितपरिस्कंदपरजातपरैधिताः ॥ " "9 1 " जीवंतिक इत्यपि " शाकुनिक: द्वे पक्षिणां हंतरि “ पक्ष्यांचा पारधी इति ख्याते । ” वागुरिकः जालिक: द्वे जालेन मृगान्बघ्नतः । वागुरा मृगबंधनी तया चरति वागुरिकः । वैतंसिकः कौटिक : मांसिकः त्रयं यो मांसविक्रयेण जीवति तस्य “ खाटिक इति ख्यातस्य । वीतंसेन मृगपक्ष्यादिबंधनोपायेन चरति वैतंसिकः । कूटेन मृगादिबंधनयंत्रेण चरति कौटिकः । मांसं पण्यमस्य मांसिकः ॥ १४ ॥ भृतकः भृतिभुक् कर्मकरः वैतनिकः चत्वारि वेतनोपजीविनः “चाकर, मजूर इति प्रसिद्धस्य । ” भृतिर्वतनं भृर्ति वेतनं भुंक्ते भृतिभुक् । वार्तावहः वैवधिकः " विवधिक इत्यपि " द्वे वार्ताया वाहके " कावड्या इति ख्याते ।” विवधः पर्याहार: तं वहति वैवधिकः । विवधवीवधशब्दौ उभयतः बद्धशिक्ये स्कंधवाह्ये काष्ठे वर्तेते । भारवाह : भारिकः " द्वे ओझेकरी इति ख्यातस्य । भारीति नतोऽप्यन्यत्र " ॥ १५ ॥ विवर्णः पामरः नीचः प्राकृतः पृथक्जनः निहीनः अपसद : "अपशेद इति भरतमा 66 66 'लायाम्” जाल्मः क्षुल्लकः “ खुल्लकः । खुल्लकस्त्रिषुनीचेऽल्पे इति रभसः ।” इतरः दश नीचस्य ॥ १६ ॥ भृत्यः दासेरः दासेयः दासः दाश इति तालव्यांतोऽपि " गोप्यकः चेटक : “ चेडक इत्यपि " नियोज्यः किंकरः प्रैष्यः “ प्रेष्य इत्यपि " भुजिष्यः परिचारकः एकादश दासस्य । प्रैष्य इत्यत्र प्रादूहोदेति वृद्धिः ॥ १७॥ पराचितः “ पराजितोऽपि । परैराजीयते स्म " परिस्कंदः “ परिष्कंदः परेश्चेति 1 वा षत्वम् । परिष्कन्नः परिस्कन्नश्च इत्यपि " परजातः परैधितः चत्वारि परेण संवर्धि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy