SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २४१ क्षुरी मुंडी दिवाकीर्तिनापितांतावसायिनः॥ निर्णेजकः स्याद्रजकः शौडिको मंडहारकः ॥ १०॥ जाबालः स्यादजाजीवो देवाजीवस्तु देवलः॥ स्यान्माया शांबरी मायाकारस्तु प्रतिहारकः॥११॥ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः॥ भैरता इत्यपि नटाचारणास्तु कुशीलवाः॥ १२ ॥ मार्दगिका मौरजिकाः पाणिवादास्तु पाणिघाः॥ वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः॥१३॥ तक्षः स्यात् । एकम् ॥ ९॥ क्षुरी मुंडी । क्षुरि मुंडि इति व्हस्वघटितपाठोऽपि । दिवाकीर्तिः नापितः अंतावसायी पंच नापितस्य "नाहावी इति ख्यातस्य" । निर्णेजकः रजकः द्वे वस्त्राणां धावकस्य “परीट इति ख्यातस्य ।" शौडिकः मंडहारकः द्वे सुराजीविनः “ कलाल इति ख्यातस्य" । शुंडा सुरा सा पण्यमस्य शौडिकः ॥ १०॥ जाबालः अजाजीवः द्वे अजापालस्य " मेंढपाळ, मेंढक्या, धनगर इति ख्यातस्य ।" देवाजीवः “देवाजीवीत्यपि" देवलः द्वे देवसेवोपजीविनः “गुरव, देवळी इति ख्यातस्य । देवं लक्षणया तत्स्वं लातीति देवलः ।" माया शांबरी द्वे इंद्रजालस्य “ गारूड इति ख्यातस्य"। शंबराख्यस्यासुरस्येयं शांबरी । मायाकारः प्रतिहारकः "प्रतिहारिकः प्रातिहारक इत्यपि द्वे मायाविनः गारुडीति ख्यातस्य ।” प्रतिहारो व्याजः प्रयोजनमस्य स तथा ॥११॥ शैलाली शैलूषः जायाजीवः कृशाश्वी भरतः “भारत इत्यपि । कृशाश्वेन च य. त्प्रोक्तं नटसूत्रमधीयते । रंगावतारी शैलूषो नटे भरतभारताविति वाचस्पतिः ।" नटः षटुं नटेषु “ नटवा इति ख्यातेषु ।” नटति नृत्यति नटः । चारणः कुशीलवः द्वे कथकानां नटविशेषाणाम् । “कुत्सितं शीलमस्त्यस्य कुशीलवः" ॥ १२॥ मार्दगिकाः मौरजिकाः द्वे मृदंगवादनकुशलानां “ मृदंगी पखवाजी इति ख्यातानाम् ।” पाणिवादाः पाणिघाः द्वे ये पाणितलेनैव पाण्यंतरे मृदंगादिध्वनिमनुकर्वति तेषां " हाताचे तालधारी इति ख्यातानाम् ।" वेणुध्माः वैणविकाः द्वे वेणुवादिनां "पांवेकरी इति ख्यातानाम् ।” वेणुध्माः आदतः सोमपावत् । वीणावादाः वैणिकाः द्वे वीणावादनं शिल्पमेषां "विणेकरी इति ख्यातानाम्" ॥१३॥ जीवांतक: For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy