SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३८ सटीकामरकोशस्य [शूद्रवर्गः सौवर्चलं स्याद्रुचकं त्वक्षीरी वंशरोचना ॥ १०९॥ शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ॥ ग्रंथिकं पिप्पलीमूलं चटिकाशिर इत्यपि ॥ ११० ॥ गोलोमी भूतकेशो ना पत्रांगं रक्तचंदनम् ।। त्रिकटुत्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११॥ ॥इति वैश्यवर्गः॥ शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः॥ आचंडालात्तु संकीर्णा अंबष्ठकरणादयः ॥ १ ॥ स्यौषधिविशेषस्य " वंशलोचन इति ख्यातस्य" । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी तु वैणवीति कोशांतरम् ॥ १०९ ॥ शिग्रुजं श्वेतमरिचं द्वे सौभांजनबीजस्य " शेवग्याचे बी इति ख्यातस्य" । इक्षुसंबंधिमूलकं मोरटं स्यात् एकं “ इक्षुमूलस्य" । ग्रंथिकं पिप्पलीमूलं चटिकाशिरः । “ चटकाशिर इति हेमचंद्रः । चटकायाः शिर इव । चटका शिरः इति पृथगपि । शिरो ना पिप्पलीमल इति मे. दिनी" । त्रयं पिप्पलीमूलस्य । “पिंपळीमूळ इति ख्यातस्य" ॥ ११० ॥ गोलोमी भूतकेशः द्वे " जटामांसी इति प्रसिद्धायाः" । गौरिव लोमान्यस्याः सा गोलोमी । गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोरिति विश्वः । पत्रांगं रक्तचंदनं द्वे रक्तचंदनसदृशस्य रक्तसारस्य “कृष्णसिंसव, पतंग इति च ख्यातस्य । पत्राण्यंगे ऽस्य पत्रांगम् ।” त्रिकटु व्यूषणं " त्र्युषणमिति द्विरूपकोशः" व्योषं त्रीणि शुंठपिप्पलीमरीचानां समाहारस्य । त्रिफला "तृफला । तृफला त्रिफला चेति त्रिकांडशेषः ।” फलत्रिक द्वे हरीतक्यामलकबिभीतकफलानां समाहारस्य ॥ १११॥ इति वैश्यवर्गः ॥ ७ ॥ शूद्रः अवरवर्णः वृषल: जघन्यजः जघन्यात्पादाज्जातः । जनी प्रादुर्भावे । चत्वारि शूद्रस्य । चंडालो ब्राह्मण्यां शूद्राज्जातस्तम. भिव्याप्य वक्ष्यमाणा अंबष्टकरणादयः । “आदिना उग्रादयः ।" संकीर्णाः प्रतिलोमानुलोमजत्वान्मिश्राः । एकम् । तेच संकरजातीयाः करणांबष्ठानेमागधमाहिष्यक्षतृसूतवैदेहकरथकारपारसवचंडालाख्याः एकादशेति ॥१॥ शूद्रा शूद्रजातिरंगना For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy