SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २३७ नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम् ॥ १०५॥ रंगवंगे अथ पिचुस्तूलो ऽथ कमलोत्तरम् ॥ स्यात्कुसुंभं वन्हिशिखं महारजनमित्यपि ॥ १०६॥ मेषकंबल ऊर्णायुः शशोर्ण शशलोमनि ॥ मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्॥ १०७॥ मनःशिला मनोगुप्ता मनोव्हा नागजिव्हिका ॥ नेपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८॥ पाक्यो ऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः॥ त्रयं सागरमलाख्यस्य समुद्रफेनस्य । सिंदूरं नागसंभवं द्वे "सेंदूर इति ख्यातस्य ।" नागात्सीसात्संभवो ऽस्य नागसंभवम् । नागं सीसकं योगेष्टं वप्रं “वर्द्धमिति मुकुटः । वृधु वर्द्धने । वृधिवपिभ्यां रन्"। चत्वारि सीसस्य “शिसें इति ख्यातस्य ।" त्रपु पिञ्चटम् ॥ १०५ ॥ रंगं वंगं चत्वारि वंगे “कथिल इति ख्याते।" पिचुः तूलः द्वे कार्पासस्य । कमलोत्तरं कुसुंभं वन्हिशिखं महारजनं चत्वारि कुसुंभस्य । रज्यते वस्त्राद्यनेन रजनम् । महच्च तद्रजनं च महारजनम् ॥ १०६॥ मेषकंबलः ऊर्णायुः द्वे कंबलस्य । ऊर्णायुरुदंतः पुंसि । शशोर्ण शशलोम द्वे शश. लोनः । मधु क्षौद्रं माक्षिकं त्रीणि मधुनः । आदिना भ्रामरपौत्तिकादिग्रहणम् । मधच्छिष्टं सिक्थकं द्वे "मेण इति ख्यातस्य"। मधुना उच्छिष्यते मधूच्छिष्टम् ॥१०॥ मनःशिला “मनःशिल इति द्विरूपकोशः" | मनोगुप्ता मनोव्हा नागजिव्हिका चत्वारि मनःशिलायाः । “ मनःशब्दवाच्या शिला मनःशिला ।" नैपाली कुनटी गोला त्रीणि नैपालदेशोद्भवायां मनःशिलायाम् । सप्तैकार्था इत्येके । यवक्षारः यवाग्रजः ॥ १०८ ॥ पाक्यः त्रीणि दग्धयवांकुरेभ्यो जायमानस्य क्षारभेदस्य " जवखार इति ख्यातस्य ।" सर्जिकाक्षारः । “ सृजिकाक्षार इति रामनाथः ।" कापोतः सुखवर्चकः त्रीणि क्षारभेदस्य " सज्जीखार इति ख्यातस्य" । सर्जिको दग्ध्वा क्षार्यते यः स सर्जिकाक्षारः । सौवर्चलं रुचकं द्वे क्षारभेदस्य "संचळखा. र इति ख्यातस्य" । प्रागुक्तमपि क्षारप्रसंगात् पुनरुक्तम् । पंचापि सर्जिकाक्षारस्येति सुभूत्यादयः । त्वक्षीरी वंशरोचना "वंशलोचनेति हेमचंद्रः" द्वे वेणुजन्य For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy