SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३६ सटीकामरकोशस्य 1 [वैश्यवर्गः तुत्यांजनं शिखिग्रीवं वितुन्नकमयूरके ॥ कर्परी दार्विकाकाथोद्भवं तुत्थं रसांजनम् ।। १०१॥ रसगर्भ तार्यशैलं गंधाश्मनि तु गंधिकः॥ सौगंधिकश्च चक्षुष्याकुलाल्यौ तु कुलस्थिका ॥ १०२॥ रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमांजनम् ॥ पिंजरं पीतनं तालमॉलं च हरितालके ॥ १०३॥ गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु ॥ बोलगंधरसप्राणपिंडगोपरसाः समाः॥ १०४ ॥ डिंडीरो ऽब्धिकफः फेनः सिंदूरं नागसंभवम् ॥ मयूरकं कर्परी पंच तुत्यांजनस्य मोरचूद इति ख्यातस्य। तुदत्यक्षिरोगान् तुत्थम् । तुत्थं च तदंजनं च । दार्विका दारुहरिद्रा तत्काथोद्भवम् । तस्याः क्वाथे "समभा. गेन अजादुग्धेन" संस्कृतं तुत्थं तुत्यांजनं रसांजनादिसंज्ञं स्यात् । “दर्विकेत्यपि।" रसांजनम् ॥ १०१॥ रसगर्भ तायशैलं त्रीणि । केचित्तुत्थरसांजनमिति समस्तं पेठुः । गंधाश्मा गंधिकः “ गंधक इत्यपि" सौगंधिकः त्रीणि गंधकस्य । चक्षुष्या कुलाली कुलत्थिका त्रयं “तुत्थविशेषस्य निळा सुरमा इति ख्यातस्य ।" चक्षुषे हिता चक्षुष्या । कुले तिष्ठति तत्प्रतिकृतिः कुलत्थिका ॥ १०२ ॥ रीतिपुष्पं पुष्पकेतु पुष्पकं "पौष्पकमित्यपि" कुसुमांजनं चत्वारि संतप्तपित्तला. दुत्पन्नस्य" जस्ताचे फूल इति ख्यातस्य ।” पुष्पकेतु उदंतं क्लीवे । पिंजरं पीतनं तालं आलं "अलं । हरितालमलं तालवर्णकं नटभूषणमिति माधवः ।" हरितालकं पंच हरितालस्य ॥ १०३ ॥ गैरेयं अर्थ्य गिरिजं अश्मजं शिलाजतु पंच शिलाजतुनः “शिलाजित इति ख्यातस्य" । अर्थ्यते रसायनार्थिभिरर्थ्यम् । शिलायां स्रवल्लाक्षाकृतित्वाच्छिलाजतु । बोल: गंधरस: “ रसगंध इति स्वामी । राजदंतादित्वात् ।" प्राणः पिंडः गोपरस : पंच गंधरसस्य । “ रक्त्या बोळ इति ख्यातस्य" । गोपः रसश्चेति पृथगपि । अत्र गोस इति मुकुटः । गां जलं स्य. ति । षोंऽतकर्मणि । गोप इति स्वामी । गंधप्रधानो रसो ऽस्य गंधरसः॥ १०४॥ डिंडीरः । “हिंडीर इत्यपि" । हिंडिर इति शब्दरत्नावल्याम् । अब्धिकफ: फेनः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy