SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २३५ लोहो ऽस्त्री शस्त्रकं तीक्ष्णं पिंडं कालायसायसी ॥ अश्मसारो ऽथ मंडूरं सिंहाणमपि तन्मले ॥९८॥ सर्व च तैजसं लोहं विकारस्त्वयसः कुशी॥ क्षारः काचो ऽथ चपलो रसः सूतश्च पारदें ॥९९॥ गवलं माहिषं शृंगमभ्रकं गिरिजामले॥ स्रोतोंजनं तु सौवीरं कापोतांजनयामुने ॥ १०॥ स्य ॥ ९७॥ लोहः शस्त्रकं तीक्ष्णं पिंडं कालायसं "कृष्णायसमिति रत्नमाला ।" अयः अश्मसारः सप्त लोहस्य । “अश्मसारं च शस्त्रकमित्यमरमाला ।" मंडरं सिंहाणं " सिहानमित्यपि" पाठः । “सिंघाणमित्यपि" द्वे लोहमलस्य लोहकीट इति ख्यातस्य । मंडूरं टवर्गमध्यम् ॥ ९८ ॥ सर्वमपि तैजसं सुवर्णरजतादिकं लोहमित्युच्यते । “ प्रज्ञाद्यणि लौहमित्यपि" । यद्वा सर्वं स्वर्णादि तैजसं लोहं च स्यात् । “तेजसो विकारस्तैजसम्” । यदुक्तम् । सुवर्ण रजतं ताम्र रीतिः कांस्य तथा त्रपु । सीसं कालायसं चैवमष्टौ लोहानि चक्षत इति । अयस्तु विशेषाल्लोहसंज्ञम् । अयसो विकारः फालाख्यः कुशी स्यात् । यच्छाश्वतः । कुशी वला कुशी फाले इति । एकं स्त्रीलिंगम् । क्षारः काचः द्वे काचस्य “कांच बांगडखार इति ख्यातस्य" क्षरति क्षारः । चपलः रसः सूतः पारदः । “पारतः । रसेंद्रः पारदः प्रोक्तः पारतो ऽपि निगद्यत इति तारपालः । पारतस्तु मनाक्पांडुः सूतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृता इति शब्दार्णवः" । चत्वारि पारदस्य “पारा इति ख्यातस्य" ॥ ९९ ॥ यन्माहिषं श्रृंगं तद्वलमित्येकम् । पारदो हि प्रायेण गवले निधाप्यते तत्र तदभिधानम् । अभ्रकं गिरिजामलं हे “अभ्रक इति ख्यातस्य ।" अभ्रस्य प्रतिकृतिरभ्रकम् । गिरिजम् । अमलमिति कश्चित् । तन्मते त्रीणि । "गिरिजं गिरिजाबीजममलं गवलध्वजमिति वाचस्पतिः" स्रोतोंजनं सौवीरं कापोतांजनं यामुनं चत्वारि सौवीरांजनस्य “सुरमा इति ख्यातस्य ।” यमुनास्रोतसो जातमंजनं स्रोतोंजनम् । सुवीरदेशे भवं सौवीरम् । धन्वंतरिस्तु । अंजनं मेचकं कृष्णसौवीरं स्यात्सुवीरजम् । कापोतकं यामुनं च स्रोतोंजनमुदाहृतमिति ॥ १०० ॥ तुत्यांजनं शिखिग्रीवं वितुन्नकं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy