SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वैश्यवर्गः नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ॥ परिदान परीवर्ती नैमेयनिमयावपि ॥ ८०॥ पुमानुपनिधिासः प्रतिदानं तदर्पणम् ॥ क्रये प्रसारित क्रय्यं क्रेयं केतव्यमात्रके ॥ ८ ॥ विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु ॥ कीबे सत्यापन सत्यंकारः ससाकृतिः स्त्रियाम् ॥ ८२ ॥ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु ॥ नीवी " नीविरित्यपि " परिपणः मूलधनं क्रयविक्रयादिव्यवहारे यन्मूलधनं तस्य भांडवल इति ख्यातस्य । नीवी सी । परिपण्यते वृद्ध्यर्थ प्रयुज्यते परिपणः । मूलधनादधिकं निष्पन्नं कालांतरेण स लाभः स्यात् “ एकं नफा इत्यादि ख्यातस्य" । परिदानं " प्रतिदानमित्यपि " परीवर्तः “ परिव. ते इत्यपि” नैमेयः “ वैमेयोऽपि " निमयः “ विमय इत्यपि" चखारि परिवर्तनस्य “ मोबदला इति प्रसिद्धस्य ।" मेङ प्रणिदाने । निमानं निमयः ॥८०॥ उपनिधिः न्यासः द्वे निक्षेपस्य “ठेव, पुरलेले द्रव्य इति प्रसिद्धस्य "। स्मृतौ तेषां भेदो नास्ति । तस्य निक्षेपस्य निक्षेप्त्रे अर्पणं प्रतिदानमित्युच्यते । एकम् । प्रतीपं दानं प्रतिदानम् । क्रये " क्रयविषये ग्राहका गृह्णीयुरिति बुद्ध्या" यदापणे प्रसरितं वस्तु तत् क्रय्यं एकम् । यत्केतव्यमानं यत्र कापि वर्तते तत्केयम् ॥ ८१॥ एवं विक्रेयं पणितव्यं पण्यं त्रयं विक्रेयस्य वस्तुनः । क्रय्यादयो वाच्यालिंगाः । सत्यापनं " सत्यापना । सत्यापना सत्याकृतिरिति त्रिकांडे बोपालितात् "। सत्यंकारः सत्याकृतिः त्रयं अवश्यं मयैतत्केतव्यमित्यादिरूपस्य सत्यस्य करणे “ सई करणे इति ख्याते । सत्यंकारस्तु लोके सच्कार, विसार इत्यादिप्रसिद्धः ।” सत्यस्य कृतिः सत्याकृतिः । सत्यादशपथ इति डाच ॥ ८२॥ विपणः विक्रयः द्वे “ विकणे इति ख्यातस्य "। आदश " दशशब्दमभिव्याप्य" एकाद्या अष्टादशांताः संख्याशब्दाः संख्येये वर्तमानात्रिषु । यथा एका शाटी। एकः पटः । एकं वस्त्रम् । दश स्त्रियः। दश पुरुषाः । दश कुलानि । “ न तु विप्रस्यैक इत्यादि" एवं अष्टादशपर्यंताः उदाहर्तव्याः । तत्र For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy