SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. २३१ विंशत्याद्याः सदैकत्वे सर्वाः संख्ये यसंख्ययोः ॥ ८३ ॥ संख्यार्थे बहुत्वे तस्तासु चानवतेः स्त्रियः ॥ पंक्तेः शतसहस्रादि क्रमादशगुणोत्तरम् ॥ ८४ ॥ यौतवं दुवयं पाय्यमिति मानार्थकं त्रयम् ॥ मानं तुलांऽगुलिप्रस्थैर्गुजाः पंचाद्यमाषकः ॥ ८५ ॥ चतुष्पर्यंता वाच्यार्लंगाः । शेषं त्रिषु समानम् । हिशब्दादेषां संख्येये एव वृत्तिर्न तु संख्यायामिति सूचितम् । विंशत्याद्याः विंशतिमारभ्य परार्द्धपर्यंताः सर्वाः संख्याः सदैकत्वे नित्यमेकवचनांताः । संख्येये संख्यायां च वर्तते । तत्र संख्येये यथा । एकोनविंशतिः पटाः । विंशत्या पुरुषैः कृतत् । संति शतं गाव इत्यादि । संख्यायां यथा । पटानां विंशतिः । गवां शतम् ॥ ८३ ॥ संख्यार्थे द्विबहुवचने स्तः । संख्यांतरार्थे वर्तमानाया विंशत्यादि संख्यायाः द्विवचने बहुवचने अपि भवत इत्यर्थः । यथा द्वे विंशती । गवां शतानि । “तिस्रो विंशतय इत्यादि । तासु विंशत्यादिषु नवतिपर्यंताः स्त्रियाम् ॥ पंक्तेरिति । पंक्तिर्दश संख्या तामारभ्य दशगुणं उत्तरं यंत्र - तादृशं संख्यानं क्रमात् शतसहस्रादि स्यात् । पंक्तिर्दशाक्षरच्छंदो दशसंख्याव - लिष्वपि इति विश्वः । यथा दशगुणा पंक्तिः शतं स्यात् । शतं दशगुणं सहस्रं स्यात् । एवमयुतादि । यदाहुः । एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जं खर्वनिखर्व महापद्मशंकवस्तस्मात् । जलधिश्चांत्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थं कृताः पूर्वैरिति ॥ ८४ ॥ यौतवं द्रुवयं पाय्यं इति त्रयं मानार्थकम् समानमर्यो यस्य तत् | परिमाणवाचकमित्यर्थः । यौतवं ओष्ठ्यांतवर्णम् । पाय्यं तालव्यसंयुक्तांतम् । तन्मानं तुलांगुलिप्रस्थैर्भिद्यते । तुलामानं अंगुलिमानं प्रस्थमानं चेति त्रिविधमित्यर्थः । एतदेवोन्मानप्रमाणपरिमाणशब्दैः क्रमेण व्यवन्हियते । " यदुक्तम् । उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्याभिन्ना तु सर्वत इति " | पंच गुंजा: आद्यमाषकः शास्त्रीयो माषकः स्यात् । यथा च शास्त्रं पंचकृष्णलो माष इति । एकम् । आद्येति विशेषणं द्विकृष्णलस्य राजतमाषस्य व्यावृत्त्यर्थं । तस्य शास्त्रे प्रायशो व्यवहाराभावात् ॥ ८५ ॥ ते षोडश माषा अक्षः कर्षश्च For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy