SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २२३ "म्रक्षणाभ्यंजने तैलं कृसरस्तु तिलौदनः” ॥ गव्यं त्रिषु गवां सर्व गोविट् गोमयमस्त्रियाम् ॥५०॥ तत्तु शुष्कं करीषो ऽस्त्री दुग्धं क्षीरं पयः समम् ॥ पयस्यमाज्यदध्यादि द्रप्स दधि घनेतरत् ॥ ५१ ॥ घृतमाज्यं हविः सनिवनीतं नवोदृतम् ॥ तत्तु हैयंगवीनं यत् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥ दंडाहतं कालशेयमरिष्टमपि गोरसः॥ तकं ह्युदश्विन्मथितं पादांबाबु निर्जलम् ॥ ५३ ॥ टवल, पातळ भात, कण्हेरी इति ख्यातस्य ।” यवागूर्दीर्घाता । “म्रक्षणेत्यर्द्ध क्षे. पकम् । म्रक्षणं अभ्यंजनं द्वे तैलस्य । तिलमिश्र ओदनः कृसरः स्यादेकम्"। गवां सर्व गोरिदं गवि भवं गोविकार इत्याद्यर्थेषु यत्क्षीरादि तद्गव्यं स्यात् एकम् “त्रिषु दधिदुग्धादेः" । गोविट् गोमयं द्वे गोः पुरीषे “ शेण इति ख्याते "। गोविट् 'षांता स्त्री ॥५०॥ तगोमयं शुष्कं करीषं स्यात् एकं “ गोवरी इति ख्यातस्य" । दुग्धं क्षीरं पयः त्रीणि “ दूध इति ख्यातस्य" । पयः सांतम् । पयसो विकारो यदाज्यदध्यादि तत्पयस्यं । “ आदिना तकं नवनीतम् " । यद्धनादितरत् श्लथं दधि तत् द्रप्सं स्यात् । “द्रप्स्यमिति भरतमालायाम् । द्रप्सः पुंस्यपि"। एकं पातळ दहीं इति प्रसिद्धस्य" ॥५१॥ घतं आज्यं हविः सर्पिः चत्वारि घृतस्य । हविषी । सर्पिषी " हविः सर्पिषि होतव्ये इति हैमः" । अंजनीयमाज्यम् । आयूर्वादंजेः संज्ञायां क्यप् । नवनीतं नवोद्धृतं द्वे " लोणी इवि ख्यातस्य" । मथिताद्दनो नवं तत्कालमुद्भुतं ह्योगोदोहोद्भवं पूर्वदिनप्राप्तगोक्षीरघृतं हैयंगवीनं स्यात् । एक “ एकरात्रपर्युषितान उत्पन्नस्य घृतस्य" । ह्यः पूर्वदिने यो गोदोहस्तस्मादुद्भवो यस्य तत् । हैयंगवीनं संज्ञायाम् । यो गोदोहस्य हियंगुरादेशः विकारार्थे खञ्च निपात्यते ॥ ५२ ॥ दंडाहतं कालशेयं अरिष्टं । अरिष्टमशुभे तके सूतिकागार आसवे ॥ शुभे मरणचिन्हे चेति विश्वः । गोरसः चत्वारि दंडमंथितस्य गोरसमात्रस्य । तद्विशेषमाह । पादांबु चतुर्थाशमुदकं यत्र तदंडाहतं तऋमिच्युते । अर्धाबु अर्धमुदकं यत्र गोरसे तदुदश्वित् । तांतम् । “ उदकेन श्वयति वर्द्धते इति विग्रहः । टुओश्वि गतिवृद्ध्योः ।" निर्जलं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy