SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. २२१ मत्स्यंडी फाणितं खंडविकारः शर्करा सिता ॥ ४३ ॥ कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता ॥ स्यात्तेमनं तु निष्ठानं त्रिलिंगा वासितावधेः ॥ ४४ ॥ शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् ॥ प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ स्यापिच्छिलं तु विजिलं संसृष्टं शोधितं समे ॥ चिक्कणं मसृणं स्निग्धं तुल्ये भावितासि ॥ ४६ ॥ खंडविकारः शर्करा सिता त्रीणि शर्करायाः “ खडी साकर, पिठी साकर इति भेदभिन्नायाः । " पंचापि शर्कराया इत्येके ॥ ४३ ॥ दध्यादिना क्षीरस्य विकृति: कूर्चिका । यदाहुः । दना सह पयः पक्कं यत्तत्स्यादधिकूर्चिका । तत्रेण पक्कं यत्क्षीरं सा भवेत्तक्रकूचिकेति । एकम् । रसाला मार्जिता द्वे दधिमधुशर्करामरीचार्द्रादिभिः कृतस्य लेह्यस्य " श्रीखंड इति ख्यातस्य । यदुक्तं सूदशास्त्रे । अर्द्धाढकः सुचिरपर्युषितस्य दनः खंडस्य षोडश पलानि शशिप्रभस्य । सर्पिष्पलं मधु पलं मरिचं द्विकर्षं गुंठ्याः पलार्धमपि चार्द्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभी कृतपात्र संस्था । एषा वृकोदरकृता सरसा रसाला या स्वादिता भगवता मधुसूदनेनेति । ” तेमनं निष्टानं द्वे व्यंजनस्य दनादेः “ कढी इति ख्यातस्य । ” तिमत्यार्द्रीभवत्यन्नमनेन तेमनम् । सूपाद्यपि तेमनमुपचारात् । इतः परं वासितांता वाच्यलिंगाः ॥ ४४ ॥ शूलाकृतं भटित्रं शूल्यं त्रयं शूलेन संस्कृतस्य मांसादेः शूलेन पक्कं शूलाकृतम् । शूलात्पाक इति डाच् । शूलं लोहशलाका । उख्यं पैठरं द्वे स्थाली संस्कृतस्यान्नादेः । प्रणीतं उपसंपन्नं द्वे रसादिसंपन्नस्य व्यंजनादेः । प्रयस्तं सुसंस्कृतं द्वे प्रयत्न निष्पन्नस्य घृतपकाः ॥ ४५ ॥ पिच्छिलं विजिलं “ विज्जलं विज्जनं चेत्यपि " द्वे मंडयुतदध्यादे: “ साई सुद्धां दहीं मट्ठा इति ख्यातस्य । ” संमृष्टं शोधितं द्वे केशकोटाद्यपनयनेन शोधितस्यान्नादेः । चिकणं मसृणं स्निग्धं त्रीणि स्निग्धस्य । चिगिति अव्यक्तं कणति चिक्कणम् । कण शब्दे । भावितं वासितं द्वे पुष्पादिद्रव्यांतरेणाधिवासितस्य । यथा धूपेन भावितास्तिलाः । वास्यते द्रव्यांतरेण मिश्रीक्रियते धूपपुष्पा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy