SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१८ सटीकामरकोशस्य [वैश्यवर्ग: ऋजीषं पिष्टपचनं कंसो ऽस्त्री पानभाजनम् ॥ ३२॥ कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ॥ सर्वमावपनं भांडं पात्रामत्रं च भाजनम् ॥ ३३॥ दर्विः कविः खजाका च स्यात्तारुहस्तकः॥ अस्त्री शाकं हरितकं शिगुरस्य तु नाडिका ॥ ३४ ॥ कलंबच कडंबश्च वेषवार उपस्करः॥ तिंतिडीकं च चुकं च वृक्षाम्लमथ वेल्लजम् ॥ ३५॥ दत्यादिरपि" वर्धमानकः द्वे पात्रभेदस्य " मालटी इति प्रसिद्धस्य ।" ऋ. जीषं “ ऋचीषमित्यपि ।” ऋच शब्दे । बाहुलकात्कीषच् पिष्टपचनं द्वे पिष्टपाकोपयोगिनः पात्रस्य “ तवा, कढई इति ख्यातस्य ।" कंसः पानभाजनं "द्वे क्षीरादि" पानपात्रस्य ॥ ३२॥ कृत्तेश्चर्मणः स्नेहपात्रं तैलाद्याधारपात्रं कुतूः स्यात् एकं “बुधला इति ख्यातस्य । स्त्रियाम् । सैव कुतूरल्पा हस्वा चेत्कुतुपः । कुत्वा डुपच् । बुधली डपकी इति लौकिकभाषायाम् । सर्व "स्यूतादि पिठरादि च" पात्रमात्रं आवपनादिसंज्ञम् । आवपनं भांडं पात्रं अमत्रं भाजनं पंच “भांडें आयधण इति ख्यातस्य । पिवत्यनेन पात्रम्" ॥ ३३ ॥ दार्वः "दी" कविः "कंबी" खजाका त्रयं स्त्रियां दाः “पळी इति ख्यातायाः।" खजति मथ्नाति पाकं खजाका । त: दारुहस्तकः द्वे दाभेदस्य " डवली इति ख्यातस्य । दारुणो हस्तको दारुहस्तकः" । तर्दू: पुंसि । अयं परिवेषणाद्युपयोगी। शाकं हरितकं शिग्रुः त्रयं वास्तुकादेः शाकस्य । शक्यते भोक्तुमनेन शाकं । शिग्रुः पुंसि । सौभांजने ऽपि शिग्रुरुक्तः । अस्य शाकस्य नाडिका नालम् ॥ ३४ ॥ कलंबः कडंब इति च स्यात् द्वे “ देंट इति ख्यातस्य" । वेषवारः "वेसवारः वेशवार इत्यपि” उपस्करः द्वे शाकादिसंस्कारार्थ रचितहरिदासर्ष. पमरीचादिचूर्णस्य । “ आत्रेयसंहितायामुक्तम् । चित्रकं पिप्पलीमूलं पिप्पली चव्यनागरम् । धान्याकं रजनीश्वेततंडुलाश्च समांशकाः वेसवार इति ख्यातः शाकादिषु नियोजयेदिति” “दश पलानि हरिद्रायाः । विंशतिपलानि धान्याकस्य । पंच पलानि शुद्धजीरकस्य । सार्द्धद्वयपलं मेथिकायाः। एतच्चतुष्टयं भर्जितमेव ग्राह्यम्। त्रीणि पलानि मरीचस्य । अर्द्धपलं हिंगोः । एतत्सर्वमेकत्र संयोज्य संमदितं वेसवार For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy