SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१७ हितीयं कांडम्. अश्मंतमुद्धानमधिश्रयणी चुलिरंतिका ॥ अंगारधानिकांऽगारशकट्यपि हसंत्यपि ॥ २९ ॥ हसन्यप्यथ न स्त्री सादंगारो ऽलातमुल्मुकम् ॥ क्लीवें बरीषं भ्राष्ट्रो ना कंदुर्वा खेदनी स्त्रियाम।। ३० ॥ अलंजरः स्यान्मणिकः कर्कर्यालुर्गलंतिका ॥ पिठरः स्थाल्युखा कुंडं कलशंस्तु त्रिषु द्वयोः॥३१॥ घटः कुटनिपावस्त्री शरावो वर्धमानकः ॥ "उध्मानमित्यपि " उत् ध्मायते । ल्युट । “उद्धारमित्यपि ।" अधिश्रयणी चल्लिः "चुल्लीत्यपि" अंतिका । “अंदिकेत्यपि । अंद्यतेऽत्र अति अदि बंधने । ण्वुल् ।" पंच चल्ले: “चूल इति ख्यातायाः । अश्मनोऽप्यंतो त्राश्मंतः।" श्रीब् पाके। अधिश्रियेतास्यां अधिश्रयणी । अंगारधानिका अंगारशकटी हसंती ॥ २९ ॥ हसनी चतुष्कमंगारशकट्याः आगटी, “ शेगडी" इति ख्यातायाः । अंगारः अलातं उल्मुकं त्रीणि प्रज्वलत्काष्ठस्य । “आद्यमेकं निखारा इति ख्यातस्य । अग्रिमद्वयं कोलीत इति ख्यातस्येत्यपि मतम् । अंगारमुल्मुके न स्त्री पुल्लिंगस्तु महीसुत इति विश्वः" ॥ अंबरीषं भ्राष्ट्रः द्वे चणकादिभर्जनपात्रस्य " खापर, रान्हे इति ख्यातस्य ।" भृज्यते ऽस्मिन् भ्राष्ट्रः । कंदुः स्वेदनी द्वे मद्यनिर्माणोपयोगिनो भाटीति प्रसिद्धपात्रस्य । कंदुर्वा ना विकल्पेन पुमान् पक्षे स्त्री ॥३०॥ अलंजरः " अलिंजर इत्यपि" मणिकः द्वे महाकुंभस्य “ माट, डेरा इति ख्यातस्य ।" कर्करी आलुः " आलरित्यपि" गलंतिका त्रयं तंडुलादिप्रक्षालनोपयोगिन्याः गलंतिकायाः “गळती इति ख्याताया वा, रोवळी इति लौकिकप्रसिद्धिः । अथवा झारी इत्यपि प्रसिद्धायाः।” गलत्यंभो ऽस्या गलंतिका । पिटरः स्थाली उखा “उषेत्यपि" कुंडं चत्वारि स्थाल्याः । “पिटरः स्थाल्यां न क्लीवमिति मेदिनी | स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलोखयोरिति मेदिनी। कुंडी कमंडलौ जारात्पतिवनीसुते पुमान् । पिठरे तु न नेति विश्वमेदिन्यौ ।" कलशः । “ दंत्यांतोऽपि । केन जलेन लसति कलसः" ॥३१॥ घटः कुटः निपः चत्वारि कलशस्य । कलशं कलशी द्वयोरिति घटेन संबध्यते । घटी। अस्त्रीति शरावेण संबध्यते । शरावः “सराव इति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy