SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१४ सटीकामरकोशस्य [वैश्यवर्गः सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ॥ स्याद्यावकस्तु कुल्माषश्चणको हरिमंथकः॥१८॥ द्वौ तिले तिलपेजश्च तिलपिजश्च निष्फले ॥ क्षवः क्षुताऽभिजननो राजिका कृष्णिका ऽऽसुरी ॥१९॥ स्त्रियो कंगप्रियंगू दे अतसी स्यादुमा क्षुमा॥ मातुलानी तु भंगायां ब्रीहिभेदस्त्वणुः पुमान् ॥२०॥ किंशारुः सस्यशूकं स्यात्कणिशं सस्यमंजरी ॥ धान्यं त्रीहिः स्तंबकरिः स्तंबो गुच्छस्तृणादिनः॥२१॥ स्य । सुमनो ऽदंतः । यावकः कुस्माषः “कुल्मास इति दंत्यांतः” द्वे अर्धस्विन्नस्य यवादेः । “अर्धशिजे यवादिक घुगऱ्या इति च ख्यातस्य" । धान्यभेदस्येत्येके । “शूक शून्ययवादेरित्यन्ये"। चणकः हरिमंथकः । हरिमंथज इत्य. पि “हे हरभरा इति ख्यातस्य" ॥ १८॥ तिलपेजः तिलपिंजः तिलान्निष्फलापिंजपेजाविति वार्तिकेणेमौ साधू । द्वे निष्फले तिले “ वांझे तीळ रानतीळ इति ख्याते । जतिल इत्यप्यस्य नाम । जतिलः कथ्यते सद्भिररण्यप्रभवस्तिल इत्युक्तेः"। क्षवः क्षुताभिजननः राजिका कृष्णिका आसुरी पंच राजसर्षपाख्यस्य कृष्णसर्षपस्य " मोहरी, राई इति ख्यातस्य" । क्षुतमभिजायते ऽनेनेति क्षुताभिजननः । "क्षुधाभिजनन इत्यपि । तत्र क्षुधामभिजनयतीति विग्रहः” ॥ १९ ॥ कंगुः “कंगूरित्यपि” प्रियंगुः द्वे कांग, “राळे” इति ख्यातस्य । अतसी उमा क्षुमा त्रयं जवस इति ख्यातस्य । धान्यभेदस्य । मातुलानी भंगा द्वे भांग, तागाचें बीं इति च ख्यातस्य । “ तरंगभेदयो गो भंगा सस्यशणाव्हय इति रुद्रः” । ब्रीहिभेदः अणुः स्यात् एकम् ॥ २० ॥ सस्यस्य शूकं सूक्ष्मं सूचितुल्यमग्रं किं. शारुः स्यादेकं पुंसि "कूस इति ख्यातस्य" । सस्यस्य मंजरी निर्गतनूतनशिरः कणिशं एकम् । कणाः संत्यस्य कणिशम् । “कणिशो धान्यशीर्षक इति ताल. व्यांते रत्नकोशः । मूर्द्धन्यांतो ऽपि" । धान्यं ब्रीहिः स्तंबकरिः त्रयं व्रीहियवादेः। स्तंबकरिरिदंतः पुंसि । तृणयवादेर्गुच्छो नालादिपुंजः स्तंबः स्यात् एकं “थोंब इति प्रसिद्धस्य" ॥ २१ ॥ अस्य गुच्छस्य यः कांडः स नाडी नालं च स्यात् For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy