SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ क्षत्रियवर्ग: अभ्यामईसमाघातसंग्रामाभ्यागमाहवाः ।। १०५ ॥ समुदायः स्त्रियः संयत्समित्या जिसमिद्युधः ॥ नियुद्धं बाहुयुद्धे ऽथ तुमुलं रणसंकुले ।। १०६ ।। वेडा तु सिंहनादः स्यात्करिणां घटना घटा || कंदनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥ विस्फारो धनुषः स्वानः पटहाडंबरौ समौ ॥ प्रसभं तु बलात्कारो हटो ऽथ स्खलितं छलम् ।। १०८ ॥ अजन्यं क्लीवमुत्पात उपसर्गः समं त्रयम् ॥ मूर्छा तु कश्मलं मोहो ऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥ अभ्यवस्कंदनं त्वभ्यासादनं विजयो जयः ॥ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥ 1 रादित्रयं अस्त्रियाम् । संयतौ । समितौ । युधौ । नियुद्धं बाहुयुद्धं द्वे बाहुयुद्धस्य । तुमुलं इत्येकं रणस्य संकुले परस्परसंबाधे वर्तते ॥ १०६ ॥ क्ष्वेडा सिंहनादः वीराणां सिंहनादतुल्यनादविशेषस्य | क्ष्वेडा टावंता । करिणां घटना युद्धे संघदृनं घटा स्यात् । योधानां संशवः आक्रोशपूर्वकः शब्दः क्रंदनं स्यात् अन्योन्यस्पर्धया योधानामाव्हानस्य एकम् । करिणां गर्जितं बृंहितं स्यात् एकम् ॥१०७॥ धनुषः शब्दो विस्फारः एकम् । पटहः आडंबरः द्वे संग्रामध्वनेः प्रसभं बलात्कारः हठः त्रीणि बलात्कारस्य । " प्रगता सभा विचारो ऽस्मात्प्रसभम् । बलात्करणं बलात्कारः । स्खलितं छलं द्वे युद्धमर्यादायाश्चलनस्य ॥ १०८ ॥ अजन्यं उत्पातः उपसर्गः प्रयमुत्पातस्य " शुभाशुभसूचकस्य । न जने साधु अजन्यम्” । मूर्च्छा कश्मलं मोह: त्रीणि मूर्छायाः अवमर्दः पीडनं द्वे सस्यादिसंपन्नस्य देशस्य यत्परचक्रेण पीडनं तत्र ॥ १०९ ॥ अभ्यवस्कंदनं अभ्यासादनं द्वेदाक्रमणस्य धाड इति ख्यातस्य । छापा इत्यपि । विजयः जयः द्वे शत्रुप1 राङ्मुखीकरणेन लब्धस्योत्कर्षस्य । वैरशुद्धिः प्रतीकारः वैरनिर्यातनं त्रीणि वैरप्रतीकारस्य ॥ ११० ॥ प्रद्रावः उद्भावः संद्रावः संदावः विद्रवः द्रवः अपक्रमः "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy