SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. अहंपूर्वमहंपूर्वमित्यहपूर्विका स्त्रियाम् ॥ १०॥ आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः॥१०॥ द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥१०२॥ वीरपानं तु यत्पानं वृत्ते भाविनि वा रणे ॥ युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३॥ मृधमास्कंदनं संख्यं समीकं साँपरायिकम् ॥ अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४॥ संप्रहाराभिसंपातकलिसंस्फोटसंयुगाः॥ स्यात् । सुपसुपेति समासे स्वार्थे कन् । स्त्रियां टाप् । एकम् । स्त्रियाम्॥१०॥ दोदात्मविषये या संभावना सामर्थ्याविष्करणं सा आहोपुरुषिकेत्युच्यते । अहंपुरुष इत्यहंकारवानहोपुरुषस्तद्भाव आहोपुरुषिका एकम् । यः परस्परमहं शक्तोऽहं शक्त इत्यहंकारः सा अहमहमिका स्यात् ।अहमहंशब्दोऽस्त्यत्र वीप्सायां द्विर्वचनम् । एक षडक्षरम् ॥ १०१॥ द्रविणं तरः सहः बलं शौर्य स्थाम शुष्मं शक्तिः पराक्रमः प्राणः दश पराक्रमस्य । तरसी । सहसी । स्थामनी । शुष्ममदंतम् । "सह इत्यदंतो ऽपि । सहो ऽस्त्रियां बले न स्त्रीति रभसः । सहो बले न स्त्रियां स्यादिति मेदिनी च"। विक्रमः अतिशक्तिता द्वे अतिपराक्रमस्य ॥१०२॥रणे वृत्ते सति. तच्छ्रमशांत्यर्थ अथवा भाविनि भविष्यति रणे तदुत्साहवृद्धयर्थं यद्वीराणां मद्यपानं तद्वीरपानं स्यात् । “वीरपाणमित्यपि । वा भावकरणयोरिति णत्वम्” । युद्धं आयोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधं आस्कंदनं संख्यं समीकं सांपरायिकं “संपरायिकं" कन् । समरः अनीकः रणः कलहः विग्रहः ॥ १०४ ॥ संप्रहारः अभिसंपातः कलिः संस्फोटः “संस्फेट:" · संयुगः अभ्यामर्दः “ अभिमर्द इत्यपि"। “अभिमर्दस्तु पुंसि स्यादवमर्दै संपराये चेति मेदिनी।" समाघातः संग्रामः अभ्यागमः आहवः ॥ १०५ ॥ समुदायः संयत् समितिः आजिः समित् युत् एकत्रिंशयुद्धस्य । संख्यं ड्यनुस्वारम् । सम For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy