SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir '२०४ सटीकामरकोशस्य क्षित्रियवर्गः वैतालिका बोधकराचाँक्रिका घाँटिकाऽर्थकाः॥ स्युर्मागधास्तु मगधा बंदिनः स्तुतिपाठकाः॥९७॥ संशप्तकास्तु समयात्संग्रामादनिवर्तिनः॥ रेणुईयोः स्त्रियां धूलिः पांसुर्ना न दयो रजः॥९८॥ चूर्ण क्षोदः समुत्पजपिंजलौ भृशमाकुले ॥ पताका वैजयंती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥ सा वीराशंसनं युद्धभूमिर्या ऽतिभयप्रदा ॥ बोधकराः द्वे ये नृपान्स्तुतिपाठेन प्रातलेोधयंति तेषु । “ विविधन तालेन शब्देन चरंति ते वैतालिकाः।" चाक्रिकाः घांटिकाः द्वे बंदिविशेषेषु । घंटाघातेन ये शंसंति ते घांटिकाः । यदाहुः । प्रबोधसमये । घंटाशिल्पास्तु घांटिका इति । "चक्रिका घटिकार्थका इति क्वचित्पाठः । तत्र चक्रमस्ति वाद्यत्वेन यस्य । ठन् । घटी कायंति कै शब्दे द्वे घटिकावादकस्य ।” मागधाः मगधाः " मधुका इति मुकुटः । मधु मधुरं कायंति इति विग्रहः ।" हे राजाग्रतो वंशक्रमस्थ स्तावकानाम । यदाहुः । मागधाः सूतवंशजा इति । बंदिनः स्तुतिपाठकाः द्वे रा. जादिस्तुतिपाठकेषु “भाट इति ख्यातेषु।" वंदंते स्तुवंते तच्छीला वंदिनः। “यदुक्तम् । वंदिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तय इति ।" चत्वार एकार्था इत्येके ॥ ९७ ॥ समयाच्छपथाचे संग्रामादनिवर्तिनोऽपराङ्मुखास्ते संशप्तकाः स्युरेकम् । रेणुः धूलिः “धूली" पांसुः “पांशुः" रजः चत्वारि धूल्याः “धूळ इति ख्यातायाः । रेणुः स्त्रीपुंसयोः ।" पांसुः पुंसि । रजः क्लीवे ॥ ९८ ॥ चूर्ण क्षोदः द्वे पिष्टस्य रजसः । “ षडपि रजस इत्येके । चूर्णः पुल्लिंगो ऽपि । चूर्णो धूलौ क्षारभेदे चूर्णानि वासयुक्तिष्विति मेदिनी । चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्कर इति शाश्वतश्च ।" समुत्पिजः पिंजलः हे अत्यंतमाकुले सैन्यादौ । पताका वैजयंती केतनं ध्वजं चत्वारि पताकायाः । केतनादि द्वयं पताकादंडस्येत्येके । "पुंसि ध्वजः" ॥ ९९॥ या युद्धभूमिः खंडितैर्गजादिभिरतिभयदा सा वीराशंसनं स्यात् “ एकम् । वीरा आशंस्यंते ऽत्र वीराशंसनम् । आङः शसि इच्छायाम् ।” अहंपूर्वमहंपूर्व अहमने भवामीत्याग्रहपुरःसरं पूर्व युद्धं अहंपूर्विका For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy