SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४.८] द्वितीय कांडम.. २०३ वा पुसि शल्यं शंकुर्ना सर्वला तोमरो ऽस्त्रियाम् ॥ प्रासस्तु कुंतः कोणस्तु स्त्रियः पाल्य॑श्रिकोटयः ॥९३॥ सर्वाभिसारः सर्वोघः सर्वसन्नहनार्थकः॥ लोहाभिसारो ऽस्त्रभृतां राज्ञां नीराजनांविधिः॥९४॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ यात्रा व्रज्या ऽभिनिर्याणं प्रस्थानं गमनं गमः॥९५॥ स्यादासारः प्रसरणं प्रचक्र चलितार्थकम् ॥ अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥ ९६ ॥ शल गतौ” । यच्छाश्वतः । संख्याकीलकयोः शंकुः शंकुः प्रहरणांतर इति । ना पुमान् । सर्वला “ शर्वला । शार्दूलशर्वलाशलाटुरिति शभेदात् ।” तोमरः " द्वे गुरगंज इति प्रसिद्धस्य मंथदंडाकारशस्त्रभेदस्य । तौर्गता म्रियते ऽनेन तोमरः । शल्यादिचतुष्कमपि तोमरस्येत्येके । तत्र सर्वला स्त्री । प्रासः कुंतः "द्वे भाला इति ख्यातस्य ।" कोणः पालिः “पाली" अश्रिः “ अश्रीः" कोटि: " कोटी" चत्वारि खड़ादिप्रांतभागस्य " टोंक इति ख्यातस्य । तत्र पाल्यादयः स्त्रियाम् " ॥ ९३ ॥ सर्वाभिसारः सौंघः सर्वसन्नहनं त्रीणि चतुरंगसैन्यसन्नहनस्य " जमाव इति ख्यातस्य । सर्वसन्नहनमर्थो यस्य" । सर्वेषामभिसरणं सर्वाभिसारः । अस्त्रभृतां राज्ञां महानवम्यां दशम्यां वा नीराजनासमये शस्त्रादिसमर्पणलक्षणः यो विधिः स लोहाभिसार इत्युच्यते एकम् । लोहं शस्त्रं अभिसार्यते प्रस्थाप्यते ऽत्र लोहाभिसारः । " लोहाभिहारो ऽपि । लोहस्य शस्त्रस्याभितो हरणम् । लोहाभिहार इत्युक्तो विधि राजनोत्तर इत्यमरमाला । नीराजनो विधिरिति पाठे निःशेषेण राजनमत्रेति बहुव्रीहिर्बोध्यः" ॥ ९४ ॥ अरौ शत्रुसमीपे यत्सेनया सहाभिगमनं तदभिषेणनं स्यात् एकम् । यात्रा व्रज्या अभिनिर्याणं प्रस्थान गमनं गमः षटुं प्रयाणस्य ॥ ९५ ॥ आसारः प्रसरणं " प्रसरणीत्यपि पाठः । प्रसरणिरित्यपि" द्वे सैन्यस्य सर्वतो व्याप्तेः । प्रचक्रं चलितं हे प्रस्थितसैन्यस्य । प्रचक्रं चलितं त्रिष्वित्यमरमाला । रणे अहितान्प्रति भयरहितस्य शूरस्य यद्गमनं सोऽभिक्रम इत्येकम् । “ अतिक्रम इत्यपि " ॥९६॥ वैतालिकाः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy