SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्योमवर्ग:२] प्रथमं कांडम्.. . १५ मनुष्यधर्मा धनदो राजराजो धनाधिपः॥ किन्नरेशो वैश्रवणः पौलस्त्यो नखाहनः॥ ७२ ॥ यक्षकपिंगैलविलश्रीदपुण्यजनेश्वराः॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः॥७३॥ कैलासस्थानमलका पूर्विमानं तु पुष्पकम् ॥ स्याकिन्नरः किंपुरुषस्तुरंगवदनो मयुः॥ ७४ ॥ निधिर्ना शेवधिर्भेदाः पद्मशंखादयो निधेः॥इति स्वर्गवर्गः।। द्योदिवौ दे स्त्रियामधं व्योम पुष्करमंबरम् ॥ नभों ऽतरिक्षं गगनमनंतं सुरवर्त्म खम् ॥ १॥ वियविष्णुपदं वा तु पुंस्याकाशविहायसी ॥ विहायसोऽपि नाकोऽपि दुरपि स्यात्तदव्ययम् ॥२॥ "तारापथों ऽतरिक्षं च मेघावा च महाबिलम्"।।इति व्योमवर्गः।। भेद्यगामीति पाठस्तस्य विशेष्यगामीत्यर्थः" । कुबेरः व्यंबकसखः यक्षराट् गुह्यकेश्वरः ॥ ७१॥ मनुष्यधर्मा । मनुष्यस्येव धर्मो आचारः श्मश्रुलोमादिर्यस्य । धनदः राजराजः धनाधिपः किन्नरेशः वैश्रवणः पौलस्त्यः नरवाहनः ॥ ७२ ॥ यक्षः एकपिंगः ऐलविलः “ऐडविल: ऐडविडः" श्रीदः पुण्यजनेश्वरः सप्तदश कुबेरस्य । अस्येति प्रत्येकं संबध्यते।अस्य कुबेरस्योद्यानं चैत्ररथं । अस्य पुत्रो नलकूबरः॥७३॥ अस्य स्थानं कैलासः। अस्य पूर्नगरं अलका । अस्य विमानं पुष्पकं "पुष्पकः" इत्येकैकम् । किन्नरः किंपुरुषः तुरंगवदनः मयुः चत्वारि किन्नरमात्रस्य ॥ ७४॥ निधिः शेवधिः द्वे सामान्यनिधेः । ना पुल्लिंगः काकाक्षिवदुभयत्रास्य संबंधः । पद्मः शंख: इत्यादयो निधेर्भेदाः । आदिशब्दान्मकरकच्छपादयः। “महापद्मश्च पद्मश्च शंखो मकरकच्छपौ॥ मुकंदकुंदनीलाश्च खर्वश्च निधयो नव॥" एकैकं ॥ इति स्वर्गवर्गः ॥ ॥ द्यौः द्यौः अभ्रं व्योम पुष्करं अंबरं नभः अंतरिक्षं "अंतरीक्षं" गगनं अनंतं सुरवर्त्म खम् ॥१॥ वियत् विष्णुपदं आकाशं विहायः विहायसः नाकः द्युः इत्येकोनविंशतिराकाशस्य । तत्र द्योदिवौ स्त्रीलिंगे। आकाशविहायसी क्लीबपुंसोः। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy