SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य प्राणो ऽपानः समानश्रोदानव्यानौ च वायवः ॥ शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ॥ ६७ ॥ जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ सत्वरं चपलं तूर्णमविलंबितमाशु च ॥ ६८ ॥ सतते ऽनारताश्रांत संतताविरतानिशम् ॥ नित्यानवरताजस्वमप्यथातिशयो भरः ।। ६९ । अतिवेलभृशात्यर्थातिमात्रोद्वादनिर्भरम् ॥ तत्रैकांतनितांतानि गाढवाढदृढानि च ॥ ७० ॥ वे शीघ्राद्यत्वे स्यात्रिष्वेषां सत्वगामि यत् ॥ कुवेररूयंवकसखो यक्षराङ्गुह्यकेश्वरः ॥ ७१ ॥ For Private And Personal [स्वर्गवर्गः १ स एव सवृटिकः झंझावात इत्युच्यते ॥ ६६ ॥ प्राणः अपानः समानः उदानः व्यानः इमे पंच शरीरस्था वायुभेदाः । तथा चोक्तम् । हृदि प्राणो गुदे ऽपानः समानो नाभिमंडले || उदानः कंठदेशे स्याद्वयानः सर्व शरीरग इति ॥ अन्नप्रवेशनं मूत्राद्युत्सर्गेऽन्नादिपाचनम् । भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी इत्यपि ॥ एकैकं । रंहः तरः रयः स्यदः ॥ ६७ ॥ जवः पंचकं वेगस्य । शीघ्रं त्वरितं लघु क्षिप्रं अरं द्रुतं सत्वरं चपलं तूर्णं अविलंबितं आशु एकादश त्वरितस्य । " [रंहआदयः सवेगगतिवचनाः | शीघ्रादयस्तु धर्मवचना एव । अतएव शीघ्रं पचतीति प्रयोगो न तु जवं पचतीति । वस्तुतस्तु वेगाख्यगुणपरा रंहःप्रभृतयः शीघ्रादयस्तु कालाल्पत्वपरा इति ]" ॥६८॥ सततं अनारतं अभ्रांत संततं अविरतं अनिशं नित्यं अनवरतं अजस्रं इति नवकं नित्यस्य । " सततं क्रियांतरैरव्यवधानम् अतिशयस्तु पौनःपुन्यं इति भेदः” अतिशयः भरः ।। ६९ ।। अतिवेलं भृशं अत्यर्थं अतिमात्रं उद्गाढं निर्भरं तीव्रं एकांतं नितांतं गाढं बाढं दृढं इति चतुर्दश अतिशयस्य ॥ ७० ॥ शीघ्रादि शीघ्रं त्वरितमित्यारभ्य - शब्दपर्यंतं क्लीबे नपुंसकलिंगे यदुक्तं तत्तु असत्वे द्रव्यवृत्तित्वाभावे एव ज्ञेयं । यथा शीघ्रं कृतवान् । भृशं मूर्खः । भृशं याति । एषां शीघ्रादीनां मध्ये यत्सत्वगामि द्रव्यवृत्ति तत् त्रिषु तस्य द्रव्यस्य यलिंगं तदेवास्येत्यर्थः । यथा शीघ्रा धेनुः । शीघ्रो वृषः । शीघ्रं गमनम् । भरातिशययोः सत्वगामित्वं नास्ति । नित्यं पुंस्त्वम् । “ कचित्
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy