SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०१ हितीयं कांडम्. लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिंजिनी गुणः ॥ सात्प्रत्यालीढमालीढमित्यादि स्थानपंचकम् ॥ ८५॥ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ॥ टषत्कबाणविशिखा अजिह्मगखगाशुगाः॥८६॥ कलंवमार्गणशराः पत्री रोप इषुईयोः॥ प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिपूत्तरे ॥८७॥ निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥ तूणोपासंगतूणीरनिषंगा इषुधिर्दयोः ॥ ८८॥ तूण्यां खङ्गे तु निस्त्रिंशचंद्रहासासिरिष्टयः॥ स्तालव्यादिः” मूख्यस्य तृणस्य विकारो मौवी । प्रत्यालीढं आलीढं इत्यादयः पंच धनराणां स्थितिभेदा इत्यर्थः एकैकम् । आदिना समपदं वैशाखं मंडलं च । तत्र वामजंघाप्रसारपूर्वकदक्षिणजंघासंकोचे प्रत्यालीढम् । दक्षिणजंघाप्रसारपूर्वकवामजंघासंकोचे आलीढम् । पादयोः समत्वेन स्थितिः समपदम् । वितस्त्यंतरेण स्थिते पादद्वये वैशाखम् । मंडलाकारेण पादद्वयधारणं मंडलकम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं त्रीणि वेधस्य “निशाण इति ख्यातस्य ।" शराभ्यासः उपासनं द्वे शरक्षेपाभ्यासस्य । “शरस्य शरमोक्षस्याभ्यासः शराभ्यासः।” पृषत्कः बाणः विशिखः अजिह्मगः खगः आशुगः ॥ ८६ ॥ कलंबः मार्गणः शरः “ सरः । चित्रपुंखः सरः शर इति त्रिकांडशेषात् ।” पत्री रोपः इषुः द्वादश बाणस्य । तत्रेषुः स्त्रीपुंसयोः। प्रक्ष्वेडनः “ प्रक्ष्वेदन इत्यपि” नाराचः द्वे लोहमयस्य बाणस्य । “ नरानाचामति नाराचः । अन्येभ्यो ऽपीति ढः । प्रज्ञाद्यण् ।" पक्षः वाजः द्वे कंकादिपक्षस्य । उत्तरे निरस्तादिलिप्तकांतास्रिषु ॥ ८७ ॥ प्रहिते क्षिप्ते बाणे निरस्त इत्येकम् । विषाक्तः दिग्धः लिप्तकः त्रीणि विषाक्ते बाणे । तूणः उपासंगः तूणीरः निषंगः इषुधिः ॥ ८८॥ तूणी षटमिषुधेः बाण ठेवण्याचा भाता इति ख्यातस्य । इषवो धीयंते यस्यां भस्त्रायां सा इषुधिः स्त्रीपुंसयोः । तूणी स्त्री । “ तुणेषुधी उपासंग इति रत्नकोशे"। खडः निस्त्रिंशः चंद्रहासः असि: रिष्टिः "ऋष्टिरित्यपि । ऋष्टिः खडस्तरवारीति त्रिकांडशेषः ।" कौक्षेयकः मंडलानः करवाल: "कर २६ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy