SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २.. सटीकामरकोशस्य क्षत्रियवर्गः सेनामुख गुल्मगणौ वाहिनी टतना चमूः॥ अनीकिनी दशानीकिन्यक्षौहिण्यथ संपदि ॥ ८१ ॥ संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ॥ आयधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥ धनुश्चापौ धन्वशरासनकोदंडकार्मुकम् ॥ इष्वासो ऽप्यथ कर्णस्य कालप्टष्ठं शरासनम् ॥ ८३॥ कपिध्वजस्य गांडीवगांडिवौ पुन्नपुंसकौ ॥ कोटिरस्याटनी गोधे तले ज्याघातवारणे ॥ ८४ ॥ अक्षौहिण्याः प्रमाणं तु खाँगाष्टकद्वि'कैर्गजैः । रथैरेतैर्हयैत्रिन्नैः पंचनैश्च पदातिभिः। गजाः २१८७०, रथाः २१८७०, अश्वाः ६५६१०, नराः १०९३५० सर्वमेकीकृत्य २१८७०० अक्षौहिणी भवति । महाक्षौहिणीप्रमाणं तु । ख० द्वयं २ निधि ९ वेदा ४ क्षि २ चंद्रा १ क्ष्य २ ग्नि ३ हिमांशुभिः ।। महाक्षौहिणिका प्रोक्ता संख्यागणितकोविदः । सर्वमेकीकृत्य १३२१२४९००। एतन्महाक्षौहिणीप्रमाणम् । संपत् ॥ ८१ ॥ संपत्तिः श्री: लक्ष्मीः चत्वारि संपदः । “संपदेत्यन्यत्र ।" विपत्तिः विपत् आपत् त्रीणि आपदः । “आपत्तिः आपदा इत्यन्यत्र ।" आयुधं प्रहरणं शस्त्रं अखं चत्वारि शत्रमात्रस्य ॥ ८२॥ धनुः चापः धन्व शरासनं कोदंडं कामुकं इष्वासः सप्त धनुषः । तत्र धनुश्चापे क्लीबे पुंसि च । धन्व नांतं धन्वनी । “धन्वमिति अदंतमपि ।" धनुरुदंतो ऽपि। “शरावापो धनुः स्त्री स्यादिति त्रिकांडशेषात् ।” कर्णस्य धनुः कालपृष्ठं स्यात् " एकम् । कालो यम इव पृष्ठमस्य" ॥ ८३॥ गांडीवः गांडिवः द्वे अर्जुनस्य धनुषि । “ गांडिग्रथिरस्यास्ति । क्लीवे गांडीवं गांडिवं च । गांड्यजगात्संज्ञायामिति मत्वर्थीयो वप्रत्ययः । गांड्येत्यत्र यणा तंत्रेण -हस्वदीर्घयोनिर्देशः।" कोटि: " कोटी" अटनी “ अटनिः" द्वे अस्य धनुषः प्रांते गोधा तलं द्वे ज्या मौर्वी तस्या आघातस्ताडनं तद्वारणे चर्मादिकृतबाहुबंधविशेषे । “गोधे तले इति व्यक्तिद्वयाहित्वम्" ॥ ८४॥ धनुषो मध्यं लस्तक इत्येकम् । मौर्वी ज्या शिंजिनी गुण: चत्वारि धनुर्गुणत्य “चिल्ला इति ख्यातस्य । शिंजिनीशब्द For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy